________________
396
न्यायमञ्जरी पलब्धिक्रिया निर्वय॑ते । सैव च बुद्धिरित्याख्यायते, न त्वन्या नित्या बुद्धिरस्तीति ||
[ब्रुद्धः कर्तृत्वाचनुपपत्तिः] किंच कस्य कृते परिदृश्यमानमात्मनो ज्ञानादिकर्तृत्वं उत्सृज्य बुद्धर. दृश्यमानं तदुपेयते। कोऽत्रा'तिशयः ?
ननु ! पुरुषस्य स्वातन्त्र्यात्मक कर्तृत्वे* सति स्वकृतकर्मफलोपभोगानन्त्यादनिर्मोक्षः स्यात् । न हि कर्मणां परिक्षयः जन्मकोटिशतैरपि शक्य. क्रियः। यदा त्वकर्तारं उदासीनमेवं प्रकृतिर्बध्नाति, तदा सैव ज्ञाता सती मोक्ष्यतीति न दूरं मोक्षवम भविष्यतीति |
[पुरुषस्यानिर्मोक्षप्रसङ्गः ] . अहो बत! निखिलमेव मौयं सांख्यहृदयेष्वेव प्रतिष्ठितमिति कथ मन्यो जन इदानी मूर्यो भविष्यति ! अचेतने हि निरङकुशे प्रधाने बन्धयितरि सुतरामनिर्णोक्षः स्यात्। तत्त्वविदमपि पुमांसं न बध्नाति प्रकृति रिति कोऽस्या नियन्ता ? पङग्वन्धन्यायेन संयोगस्य तदाऽपि तुल्यत्वात् । निवृत्तकुतूहलः पुमानिति चेत्-प्रकृतिरनिर्मुक्तकौतुकाऽभिनववधूरिवस्थितैव ॥
अपि च, रे मूढ ! पूर्वमपि तपस्विना पुंसा कि कृतम्, यदाऽसौ बद्धोऽभूत् ? द्रष्टुत्वं तु तस्य रूपं तदविनाभूतमिति कैवल्यदशायामपि तन्न नश्यत्येवेति तदाऽपि तस्य बन्धनाय कथं न प्रवर्तेत निर्मर्यादा प्रकृतिः ?
* स्वाभाविके इति शेषः ।।
स्वतः परिणामस्वभावा हि प्रकृतिः ।।
1 श-ख,
त्-च.