________________
. अष्टममाह्निकम्
393 द्रष्टुत्वं स्वभाव एवास्येति चेत् ; कि बुद्धौ प्रतिबिम्बनेन । विशिष्टविषयावच्छेद इति चेत् । ततः पूर्वमनालम्बनं द्रष्ट्टत्वमघटमानमिति न नैसर्गिकं द्रष्टरूपत्वं पुंसः स्यात् ॥
[बुद्धि-पुरुषधर्मविभागानुपपत्तिः] दर्शनशक्तिः स्वाभाविकीति चेत्-न-तस्या भेदाभेदाभ्यां निरूपयिः तुमशक्यत्वात् । प्रतिबिम्बपक्षे च परस्परानुरागस्य तुल्यत्वात् अवियोगाच्च कथमिदं निर्धार्यताम्-अमी 'बुद्धिधर्माः, अमी पुं'धर्मा इति । न हि तयो पार्थगर्थ्येन कदाचित् स्वरूपावधारणं वृत्तम् ॥
- [बुद्धि पुरुषयोरवैलक्षण्यप्रसङ्गः ] अनवधारितकार्यभेदत्वाच्च नानात्वमपि तयोर्दुवचम्। चेतना. चेतनत्वात् भोक्तृभोग्यत्वाच्च विस्पष्टं तयोर्नानात्वमिति चेत्-न-ज्ञानादियोगित्वं बुद्धेः. अचेतनत्वं चेति चित्रम् ॥ ____ अपि च कल्पयित्वाऽपि बुद्धिपुंसो नात्वं बुद्धिधर्माः पुंसि, पुंधर्माश्च बुद्धावारोपणीयाः इति किं भेदेन ! भेदे च बुद्धर्ज्ञानादियोगित्वेन चेतन त्वापत्तेः एकत्र कार्यकारणसंघाते चेतनद्वयमनिष्टं प्रसज्येत ॥
[बुद्धेरावश्यकत्वाभावः] नित्यमन्तःकरणमन्तरेण पुंसः उपलब्धिर्न भवेदिति बुद्धेः कल्पना चेत्-अस्त्येव नित्यमन्तःकरणं मनः। तेन करणेन कर्तुरात्मनः विषयो
. नित्य
. * यतः पुरुषः अपरिणामी अप्रतिसंक्रमश्च ॥
। न तु दर्शनम् ॥
-
। पुं-ख,
भेदधर्म-ख.