________________
394
न्यायमञ्जरी
[बुद्धि-ज्ञान-उपलब्धिपदानामपर्यायत्वम् ] अहो नु खलु का'पिल कविकथारसा क्षिप्तहृदयः अतिबहु प्रसक्ता. नुप्रसक्त्या लिखितमस्माभिः। तदियं प्रधान विकृतिः प्रथमा महच्छब्दवाच्या सा बुद्धिः तत्त्वविदं प्रति नष्टाऽपि अन्यसाधारणत्वादनष्टवेति नित्या। नित्यत्वाच्च प्रत्यभिज्ञासनुसन्धानादिव्यवहार प्रबन्धनिर्वहण क्षमा बुद्धिः। *ज्ञानं तु तस्याः वृत्तिः। उपलब्धिस्तु पुंसो वृत्तिमद... बुद्धिदर्शनमिति नैषां पर्यायशब्दत्वमिति॥
[सांक्यप्रक्रिया निरासः] अत्र प्रतिविधीयते-आत्मन्येव नित्ये व्यापिनि बोद्धरि ज्ञातर्यध्यः वसातरि धर्माधर्मादियोगिनि प्रत्यभिज्ञानादिकार्याणां कर्तरि सेयं बुद्धिः असंज्ञा सांख्यैः कल्पिता। चेतनत्वं तु ज्ञानादियोगिन्या अपि यत्त्वस्या नाभ्युपगतं, सोऽयमतीव तमस्विनां भ्रमः। य एव बुध्यते, जानाति, अध्यवस्यति-स एव पश्यति, चेतयते च। न खल्वत्र वस्तुस्वरूपभेदं पश्यामः । तत्र बुद्धिर्बुध्यते, जानाति, अध्यवस्यति-पुरुषस्तु पश्यति, चेतयते चेति वंचनायैवमुच्यते, मुग्धतया वा॥ .
आत्मनः द्रष्टत्वादिकं स्वाभाविकम् ] यच्चेदमुच्यते-बुध्याध्यवसितमर्थं पुरुषः पश्यतीति–तद्व्याख्येयम्-किमिदं तस्य द्रष्ट्टत्वमिति । प्रतिबिम्बनमिति चेत्; कि स्वच्छे पुंसि वृत्तिमती बुद्धिः संक्रामति, उत वृत्तिमत्यां बुद्धौ पुमानिति। तत्र चतिशक्तिरपरिणामिनी अप्रतिसंक्रमेति न बुद्धौ पुरुषस्य संक्रमणम् । बुद्धौ तु पुंसि संक्रान्तायामपि पुंसः किं वृत्तम्*, येन द्रष्टा संपन्नः ||
* ज्ञानम-गौणम् बुद्धिः, तस्याः वृत्तिः। तस्याः फलं उपलब्धिः॥
1 क-ख
कथा-ख
३ प्र-ख.