SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ 393 · अष्टममाहिक नानाविधैरुपायैरुपकारिण्यनुपकारिणः पुंसः । गुणवत्यगुणस्य सतः तस्यार्थमपार्थकं चरति ॥ [अचेतनाया अपि प्रकृतेः कर्तृत्वादि ] अचेतनत्वादस्याः कथमेवंकारित्वमिति चेत्-उक्तमत्र वत्सविवद्धिनिमित्तं क्षीरस्य यथा प्रवृत्तिरज्ञस्य । - पुरुषविमोक्षनिमित्तं तथा प्रवृत्तिः प्रधानस्य ॥ (सां का-57) ननु ! उत्पन्नतत्त्वज्ञाने 'पुंसि प्रकृतेर्भो गानुकूलमहदादिकार्यारम्भपराङमुखत्वात् एकस्मिस्तत्त्वविदि मुक्ते सति सर्वे मुक्ताः स्युः-नैषं दोषः-तत्त्वविदमेव पुमांसं प्रति तस्या औदासीन्यात् । अन्यसाधारणवेन तत्कार्यानपायात्। तथा च पातजलि:-'कृतार्थं प्रति नष्टमप्यनष्ट तद त्यसाधारणत्वात्' (यो-सू-2--22) ॥ ... [सदेहमुक्तिः, विदेहमुक्तिचे ] ननु एवं यदैव तत्त्वज्ञानमुत्पन्नम्, तदैव प्रकृत्युपाजितकर्मफलो- पभोगपरिहा रिणः पुंसः शरीरपातः स्यात्-नेत्याह तिष्ठति संस्कारवंशाच्चक्रभ्रमिवद्धृतशरीरः ॥ ततः संस्कारविरतौ सत्यां प्राप्ते शरीरभेदे चरितार्थत्वात्प्रधानविनिवृत्तौ। ऐकान्तिकमात्यन्तिकमुभयं कैवल्यमाप्नोति-इति ॥ * स्वभावो दुरतिक्रमः' इति हि न्यायः ॥ +क्षीरं किल शिशु स्वयं पोषयति ॥ * अन्य-अतत्त्वविदः ॥ । भो-ख, अ-च, नित:-च, सा-खे
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy