________________
392
न्यायमञ्जरी प्रकृतेस्सुकुमारतरं न किंचिदस्तीति मे मतिर्भवति । या दृष्टाऽस्मीति पुनर्नदर्शनमुपैति पुरुषस्य || (सां-का-16)
[प्रकृतिपुरुषविवेकः ] परस्परं च भग्नरसयोः प्रकृतिपुरुषयोः व्यापकत्वात्* सत्यपि संयोगे 'सर्गो न प्रवर्तत एवेत्याह
दृष्टा मयेत्युपेक्षक एकः दृष्टाऽहमस्मीत्युपरः, त्यन्या ।
सति संयोगेऽपि तयोः प्रयोजनं नास्ति सर्गस्य ॥ अपरिम्लानकुतूहलो हि पुमान् वंचयितुं शक्यते, न दृष्टतत्त्व इति मत्वा सत्यामपि योग्यतायां निवर्तते प्रकृतिः नटीव रङगभूमौ प्रदर्शित निखिलनिजनृत्तवृत्तान्तनपुणा तत इत्याह
रङगस्य दर्शयित्वा निवर्तते नर्तकी यथा नृत्यात् । पुरुषस्य तथाऽऽत्मानं प्रकाश्य विनिवर्तते प्रकृतिः ॥ (सां-का-61)
[प्रकृतेरेव बन्धमोक्षौ] तदेवं प्रकृतिरेव संसारे प्रवर्तते, प्रकृतिरेव मोक्षमनुभवतीत्याह
तस्मान्न बध्यतेऽद्धा नापि मुच्यते नापि संसरति कश्चित् ।
संसरति बध्यते मुच्यते च नानाश्रया प्रकृतिः ।। (सां-का-62) किमर्थं पुनरसा वेवं चेष्टते प्रकृतिरिति चेत् - किं क्रियते ? *स्वभाव एवैष दैवहतिकायास्तस्याः
* असौ-जडा.
व्यापकत्वात्-विभुत्वात् ।।
1 सा-ज,
'त्येका-ख,
प्र-ख.