________________
अष्टममाह्निकम्
391 वोत्तरकार्यापेक्षया प्रकृतयः। एकादशेन्द्रियाणि, पंचभूतानि विकृतय एव । - अप्रकृतिविकृतिरूपस्तु शुद्धः पुरुष इति । तदाह
'मूलप्रकृत्विरविकृतिर्महदाद्याः प्रकृतिविकृतयः सप्त । षोडशकस्तु विकारः न प्रकृतिर्न विकृतिः पुरुषः ॥ (सां का 3)
[प्रकृतेबंधकत्वप्रकारः] .. एवं महादिविकारवती प्रकृतिरात्मनो भोगं साधयति। कश्चास्य भोगः? बुद्धिवृत्त्यनुपातित्वम्। विषयाकारपरिणतेन्द्रियवृत्त्यनुरक्तां बुद्धिवृति ज्ञानात्मिकां पुरुषः पश्यति। दर्शनेऽपि न *तस्य किंचिदन्यत्वम् । तदेव दर्शनं यत् तत्र प्रतिबिम्बनमिति। इत्थं तयोः बुद्धिपुंसोः संयोगे सति 'पुरुष' धनश्चेतयितृत्वलक्षणः बुद्धावसन्नपि सन्निव लक्ष्यते । बुद्धिधर्मश्च कर्तृत्वादिः आत्मनि साक्षिस्थानीयेऽसन्नपि सन्निव विभाव्यते । त दाह
'तत्स्मात्तत्संयोगादचेतनं चेतनावदिव लिङगम् । गुणकर्तृत्वेऽपि तथा कर्तेव भवत्युदासीनः ॥ (सां.का. 20)
[प्रकृतेर्मोचकत्वप्रकारः ] - अथ अपवर्गाय कथमात्मनः प्रकृतिरवकल्पते? स्वरूपं प्रकाशयती त्याचक्षते । अनवधृतप्रकृतिस्वरूपः पुमान् स्वरूपनिष्ठ एव प्रकृतिकृतमखिलं आत्मकृतमिति मन्यमानः तदुपाजितं भुङक्ते। यदा तु पृथग्थता. मेनां मन्यते, तदा भवत्वियमायासहेतुरेव मम, इति बुद्धयमानः तत्कतमनुप जानः स्वरूपनिष्ठ एवावतिष्ठते । प्रकृतिरपि भवतु ! दृष्टाहमनेन, पृथङमामेष मन्यते' इति न तदभिमुखीभवितुमुत्सहते।
तदाह
* तस्य-पुरुषस्य । अन्यत्वम्-रूपान्तरापत्तिः ।
1 बुद्धि-ख,
त-ख,
प्र-ख.