________________
390
भ्यायमञ्जरी भोक्तारं पुरुषमपेक्षते । पुरुषोऽपि द्रष्टा भोक्ता दृश्यं भोग्यमपेक्षते । इत्येवं तयोः पङग्वन्धवत् संयोगो भवति । दर्शनशक्त्या पङगोः, गमनशक्त्या चान्धस्य एकत्र मेलनात् कार्यसिद्धिः। एवं प्रकृतिपुरुषसंयोगात् सर्गः प्रवर्तते तदुक्तम्
पुरुषस्य दर्शनार्थः कैवल्यार्थः तथा प्रधानस्य । . पडग्वन्धवदुभयोरपि संयोगः, तत्कृतः सर्गः ॥ (सां-का-11)
[ बुद्धेः परिणामभेदाः ] यच्चेत्थं प्रधानान्महत्तत्त्वमुत्पद्यते, सा बुद्धिरध्यवसायात्मिका धर्मज्ञानवैराग्येश्यर्य तद्विपर्य यरूपवृत्ति योगिनी महत्तत्त्वमुच्यते ॥ .
बुद्धेरहडकार उदेति । स चाभिमानस्वभावः ॥
"अहंकारात्तु 'ब्रा'णादीनि पंच बुद्धीन्द्रियाणि, वागादीनि पंच कर्मः न्द्रियाणि, सङकल्पकमेकादशं मनः गन्धादितन्मात्राणि च पंचेति षोडशको गणः प्रभवति ॥
ततो गन्धादितन्मात्रपंचकात् पंच पृथिव्यादीनि महाभूतानि जायन्त इति। आह च
'प्रकृतेर्महांस्ततोऽहङकारः तस्माद्गणश्च षोडशकः ।
तस्मादपि षोडशकात् पंचभ्यः पंच भूताति ॥ (सां का.. 22) तानीमानि पंचविंशतितत्त्वानि संचक्षते। प्रधान प्रकृतिरेव, न विकृतिः। महदहङकारतन्मात्राणि सप्त पूर्वपूर्वापेक्षया विकृतयः, उत्तरो.
* तद्विर्ययः-अधर्माज्ञानावैराग्यानैश्वर्यरूपः ॥ * सात्त्विकाहंकारादेकादशेन्द्रियाणि, तामसाहंकारात्पञ्चतन्मात्राणि जायन्ते।
1 य-च,
प्रा-ख.