________________
अष्टममाह्निकम्
389 विषमवृत्तयश्चैते गणाः कार्येष दृश्यन्ते। क्वचित्सत्त्वमाधिकम् , ऊने रजस्तमसी। क्वचिद्रजः प्रकृष्टम्, अल्पे सत्त्वतमसी। क्वचित्तमः प्रवृद्धम्, तुच्छे सत्त्वरजसी इति। तदेषां वैषम्यभेदोपदशितविश्वरूपकार्याणां क्वचित् साम्यावस्थया भाव्यम्। सा प्रकृतिरुच्यते। सेयमचेतना भोग्या प्रकृतिः । अस्यास्तु भोक्ता चेतनः पुरुषः ॥
[सांख्योक्तपुरुषानुमानप्रकारः] . पुरुष इदानीं कि'म'नुमान कः ? उक्तमेव भोग्येन भोक्तुरनुमानम् । न ह्यचेतनस्य-भोग्यस्य भोक्तारमन्तरेण भोग्यतैवोपपद्यते। दृष्टा च *सेति भोक्ता कल्प्यते ॥ ___ स च चितिशक्तिस्वभावक एव सर्वप्रकारकर्तृत्वादिव्यहार निवहबहिष्कृतस्वरूपः । द्रष्टुत्वमेव पुरुषस्य स्वरूपमाहुः । यथा भवन्त एनमात्मानमध्यवसायादिधर्मयोगिनं मन्यन्ते, न तथाऽसौ भवितुमर्हति ; अध्यवसायादेबुद्धिधर्मत्वात् ॥
कर्तुं शक्नोति पुरुषः तृणस्यापि न कुब्जताम् । अन्योपनीतमर्थं तु स पश्यत्येव केवलम् ॥
[प्रकृतेरेव सर्वकर्तृत्वम् ] - प्रकृतिरेवैनं भोगापवर्गाभ्यां संयुनक्ति। न च निर्विकारा सती भोगसंपादनसमर्थाऽसौं भवतीति महदादिविकृतीः प्रतिपद्यते। पङग्वन्धन्यायेन प्रकृतिपुरुषौ संयुज्यते। प्रकृतिरचेतना दृश्या भोग्या द्रष्टारं
* सा-भोग्यता॥ * यतः स्वतः निर्गुणः निर्विकारश्च ॥
1 मा-च,
नि-च.