________________
388
न्यायमञ्जरी एव। ताविमौ प्रकृतिपुरुषौ विवेकेनापश्यतां संसारः। प्रकृतिपुरुषविवेकज्ञानान्मोक्षः इति ॥
[प्रकृतिस्वरूपम् ] का पुनः प्रकृति म? सत्त्वरजस्तमसां त्रयाणां गुणानां साम्या. वस्था प्रकृतिः। प्रधानमव्यक्तं च तदुच्यते, यत्साम्यावस्थागतं गुण. त्रयमिति ॥
ननु! तत्सत्त्वे कि प्रमाणम् ? अनुमानमित्याह । तथा हि चरा. चरमिदं विश्वं सुखदुःखमोहाविनाभूतमुपलभ्यते। न हि ब्रह्मादौ स्तम्ब पर्यन्ते जगति तथाभूतं किमपि भूतमुपलभ्यते, यत् सुखदुःखमोहै विना'. कृतम् ॥
तत्र सुखस्वभावं सत्त्वम् , दुःखस्वभावं रजः, मोहस्वभावं तपः । सर्वत्र च प्रीत्यप्रीतिविषा द'दर्शनात् प्रकाशप्रवृत्तिनियमावगमाच्च सर्व त्रिगुणात्मकं जगत्। कार्य च यत् परस्परान्वितरूपं तदेकरूपात्कारणादु. त्पद्यमानं दृश्यते। मृदन्वितानि हि घटशरावोदंचनप्रभृतीनि कार्यस्यैकस्मान्मृदात्मनः कारणादुद्भवन्ति । तदिदं विश्वं सुखदुःखमोहान्वित. मिति *तदात्मककारणकार्य भवितुमर्हति । यत् सुखदुःखमोहात्मकं कारण सा सत्त्वरजस्तमोरूपा प्रकृतिः ॥
[प्रकृतिसाधकानुमानान्तराणि ] एवमन्वयपुरस्सराः परिमाणादिहेतवोऽपि वक्यव्याः। इयत्तया वा चतुरश्रतादिना वा परिमाणेन तद्वतां कार्याणामेकप्रकृतित्वदर्शनात् ।
* सत्कार्यवादिनः सांख्याः उपादानोपादेययोः अभेदमङ्गीकुर्वन्ति । अतः 'तदात्मक' इत्युक्तम् ।
1 रवि-ख,
दादि-ख.