________________
387
सप्तममाह्निकम्
[सूत्रस्य लक्षणपरत्वम् ] . ननु ! सामयिकत्वाच्छब्दार्थप्रत्ययस्य, समयस्य च पुरुषेच्छा'नुवति। त्वात् कथमिदं व्यवस्थितं लक्षणं स्यात् ? - मैवम्-सार्वजनीनस्य समयस्य विप्लावयितुमशक्यत्वात्। तद्विशिष्टस्य तद्वाच्यस्य लक्षणत्वात् ॥
· प्रकारान्तरेण लक्षणमस्याः किमिति नोक्तमिति चेत्, शिशपाचोद्य मिदम् । तस्मिन्नप्युक्तेऽनुयुंजीत भवात् 'इत्थं किमिति नोक्तम्' इति ॥
. . [बुद्धिलक्षणविचारः]
अस्ति च प्रयोजनं पर्यायद्वारकलक्षणोपवर्णनस्य, यत् सांख्यानां व्यामोहनिरसनम् । एवं हि साङख्याः संगिरन्ते-बुद्धिरन्या, ज्ञानमन्यत, उपलब्धिरन्येति । तदभ्रयापनयनायेदमुच्यते-बुद्धिरुपलब्धिनिमित्यनर्थान्तरम्-एक एवार्थ इत्यर्थः। इत्थं च स्वरूपतो निर्माता बुद्धि: भोगस्वभावत्वात् तत्साधनंत्वाच्च संसारहेतुरिति हेयत्वेन भाव्यते, सुखादिबुद्धिः भोगः, तत्साधनबुद्धिस्तु भोगसाधनमिति । कथं पुनः पारमर्षाः प्रवन्ति, बुद्धिरन या, ज्ञानमन्यत्, उपलब्धिरन्यति ? नित्यां हि बुद्धि ते मन्यन्ते ॥
[सांख्यसंमतबुद्धिपरीक्षा ] तत् किमात्मैव तैः बद्धिरिति गहीतः?-न-अवेतनायाः भोग्यायाः प्रकृतेः थमा विकृतिः महच्छन्दवाच्या बुद्धिः । पुरुषस्तु चेतनः भोक्ता अन्य
___* बुद्धिस्तु प्रकृतेः परिणामः। ज्ञानं तु पुरुषस्य स्वरुपं मुख्यम् । गोणं तु ज्ञान बुद्धः वृत्तिरेव । तदा तु पुरुषस्य स्वरूपं चैतन्यम् ॥
1 निवर्त्य-ख,
द्वदि-ख,
'न्यो-ख.