SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ 386 न्यायमञ्जरी शेषानुमानप्रमाणकोऽयमर्थः शब्दपरीक्षायामेव परीक्षित इत्यलमतिप्रसङगेन॥ इति निपुणधियामसम्मतैषा सकलगुणकगुणत्वकल्पना । तदयमकलुषोऽभ्युपेयतां गुणविनियोगविधिर्यथोदितः ॥ [इन्द्रियाणां विमर्शनस्य फलम् ] | तेऽमी 'जे'याः कृतकमधुरं रूपमादर्शयन्तः तिक्तोद्गाराः परिणतिविपत्कारिणो हीन्द्रियार्थाः । । त्यक्ताश्चैते व्यपगतमहामोहपडाकेन पुंसा तीर्णश्चायं भवजलनिधिः क्लेशकल्लोलरौद्रः । - इतीन्द्रियपरीक्षा - [ बुद्धिपरीक्षा] बुद्धिरुपलब्धिर्ज्ञानमित्यर्थान्तरम् ॥ १-१-१५ ॥ ननु ! पर्यायोच्चारणमेतत् , न बुद्धलक्षणाभिधानम्-न-पर्यायप्रयोग स्यैव लक्षणक्षमत्वात् । लक्षणं हि तदुच्यते-येन समानेतरजातीयेभ्यः लक्ष्यं व्यवच्छिद्यते। व्यवच्छिद्यते च बुद्धिः बुद्धयादिपर्यायवाच्यतयैव तेभ्य* इति नाभिधानमालामात्रमिदम् ॥ * तेभ्यः-समानेतरजातीयेभ्यः। + बुध्युपलब्धिज्ञानानां भिन्नत्वं सांख्या मन्यन्ते। तन्निराकरणार्थ एषामर्थान्तरस्वं निरस्यते सूत्रे । इतरदाकिम् ॥ क्षे-ख, क्ताहा-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy