SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ अष्टममाह्निकम् 385 आकाशगुण एव शब्द इत्येतच्च प्राङनिर्णीतम् । 'तस्मात् न सर्वेषां सर्वगुणत्वम् ॥ [इन्द्रियाणां विषयनैयत्यम् ] यच्च पृथिव्याश्चतुर्गुणत्वे तद्गुणानां चतुर्णामपि पार्थिवघ्राणेन्द्रिय ग्राह्यत्वं स्यादिति-तन्न-*गुणोत्कर्षस्य नियामकत्वात्। सातिशयगन्ध गुणाधिकरणैविजातीयद्रव्यावयवसंस्पर्शलेशरहितैः केवलपृथिव्यवयवैरदृष्ट सहकारिभिः घटितं घ्राणेन्द्रियमिति गन्धस्यैव ग्राहकम् ॥ . [तत्तदिन्द्रियेषु तत्तद्गुणस्य प्राधान्यम् ] एतदेव च भूयस्त्वमाचक्षते । यथाऽऽह कणवतः-'भूयस्त्वाद्गन्धवत्वाच्च पृथिवो गन्धज्ञाने प्रकृतिः'। इहाप्युक्तं-'तद्व्यवस्थानं तु भूयस्त्वात्' इति । दृश्यन्ते च केवलपृथिव्यवयवोपादानेष्वपि पदार्थेषु व्यवस्थितकार्यनियमाः शक्तयः । यथा पाथिवत्वाविशेषेऽपि विषं मरणकारणम् । अगदव्यमन्यत्तु जीविताय प्रकल्पते ।। तस्मादपर्यनुयोज्योऽयं पार्थिवेन घ्राणेन गन्धवत् तद्रसादयोऽपि कथं न गृह्यन्त इति ॥ __ [इन्द्रियैः स्वगतगुणग्रहणाग्रहणे] सातिशयप्रकृ तिगुण योगेऽपि न च स्वगुणग्रहणनैपुण्यमिन्दियाणामिती न्द्रियचिन्तायां निर्णीतम् । श्रोत्रेण तु स्वगुणस्य शब्दस्य ग्रहणमिति परि. * गुणः-गन्धः॥ । अगदः-व्याधिः । अन्यत्-हरीतक्यादि । 1 गु-ख, 'ति-ख, ' णाकाश-ख. 25
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy