________________
384
न्यायमञ्जरी ___ [ भूतानामेकैकगुणवत्त्वनिराकरणम् ] ननु ! नायं गुणविनियोगः साधीयान् । पृथिव्याश्चतुर्गुणत्वे पार्थिवा घ्राणेन्द्रियेण चतुर्णामपि तद्गुणानां ग्रहणं स्यात् । एवमुत्तरेष्वपि वक्तव्यम्। तस्मादेकैकगुणत्वमेव भूतानामुच्यताम्*-नैतदेवम्-न हि गुणाः स्वेच्छया लभ्यन्ते । किन्तु यथोपलभ्यन्ते, तथा व्यवस्थाप्यन्ते । प्रतीतिप्रमाणका हि वयम् । तत्र–पार्थिवे द्रव्ये चतुर्णामपि गुणानां उपलंभात् कथमेकगुणां पृथिवीं ब्रूमः। रूपैकगुणे च तेजसि, पृथिव्युद. कयोः वायुवदरूपत्वादप्रत्यक्षत्वं स्यात्। तस्मात् त्रीणि रूपवन्ति ' व्याणि ॥
[ सर्वस्य सर्वगुणवत्त्वनिराकरणम् ]. यद्येवं सर्वेषां सर्वत्रोपलंभात् सर्वाणि सर्वगुणानि भवन्तु भूतानि । पटपटायते पृथिवी, चलचलायन्ते आपः, धगधगायते तेजः। कथकथायते वायुः इति सर्वेषां गुणः शब्दः स्यात् । उच्यते-न सर्वे गुणाः सर्व. त्रोपलभ्यन्ते। निर्गन्ध नामपां सर्वत्र दर्शनात् । क्लिन्नरूपादौ तु पार्थि वावयव संक्रान्त्या गन्धः पयस्युपलभ्यते ॥ .
_ [शब्दस्याकाशमात्रगुणत्वम् ] एवं सुवर्णे तैजसे व्ये, संयुक्तसमवायात् रसाधुपलब्धिः । शब्दस्तु सर्वकालमाकाशवृत्तिरेव प्रतीयते। पृथिव्याद्यवयवसंयोगविभागप्रभव. स्त्वसाविति तदाश्रितत्वभ्रममावहति, न त्वकाशाद्विना तस्य ग्रहणमिति ।
* इतरत्त् जले. गन्धवदौपाधिकमस्तु । । यस्य कर चित् क्वचिदीपाधिकत्वे हि विनिगमकाभावः ॥ .
1 गं-ख
निष्का-ख