________________
अष्टममाह्निकम्
383 [रूपरसादीनामिन्द्रियार्थत्वे विशेषः ] यद्यपि द्रव्यकर्मसामान्यानां अन्येषां च संख्यापरिमाणादिगुणानां अस्त्येव सक्तिहेतुता-तथापि प्राधान्येन गन्धादीनामेव सा दृश्यते। न हि रूपादिनिरपेक्षस्य द्रव्य'स्य संख्यादेः सामान्यस्य वा सक्तिहेतुत्वं समतीति रूपादय एव मुख्यं रागकारणम् । तत्र झटिति बुद्धःप्रसरणात् । उक्तं च
तथापि नितरां रागवृद्धय रूपादयो नृणाम् ।
त एव कविभिर्गीताः पंचेषोः पंच सायकाः ॥ तस्मात् पृथिव्यादीनां गुणा इति षष्ठीसमास एव श्रेयान् । गुणव्यतिरिक्तश्च गुणी पूर्वमेव 'साधितः 'यमहमद्राक्ष, तं स्पृशामि' इति प्रत्ययप्रामाण्यात् ॥
- . [ पृथिव्यादीनां गुणविभागः ] पृथिव्यादीनां गुणा इति यदुक्तं, दिदानी विभज्य वर्ण्यते, कस्य कति गुणा इति । तत्र
गन्धादयो नियोक्तव्याः चत्वारः पृथिवीगुणाः । . अप्तेजोमरुतामेकं पूर्वपूर्वमपोह्य तु॥ . गन्धवर्ज रसरूपस्पर्शाः अपाम्, रसवर्ज रूपस्पशौ तेजसः, रूपवर्ज स्पर्श एव वायोः इति । आकाशस्य तु गुणः शब्दः ॥
* शब्दस्पर्शरूपरसगन्धाः पञ्चविषयाः साक्षाद्वन्धहेतवः । एतद्द्वारेव संख्यापरिमाणादीनां बन्धकत्वम् ।।
1 सं-च
समर्थि-ख.