________________
382
न्यायमञ्जरी
[गन्धादीनां रागहेतुत्वम् ] ननु एवं गन्धादिगुणाधिकरणस्यावयविनः प्रथमस्य* रागहेतोरसंग्रहः स्यात्। वक्ष्यति च 'तन्निमितं त्ववयव्यभिमानः' इति । संख्या परिमाणादिगुणान्तराणामपि रागहेतुत्वमस्त्येव। यथा हि बहिकलापानुकारिपरिमृदितकुसुमदलपटलशबलविलासिनीकेशपाशवृत्ति रूपं हरति हृदयं यूनां, तथा तद्गता बहुत्वसंख्याऽपि। उत्तप्तकनकशिलानिभनितम्बबिम्बरूपवत् तत्परिमाणमपि। 'हरति' च सरभसमवयवसंयोगविभागाद्यपि ॥ ____तथा कन्दुकादिक्रीडासु किसलयितविलासरसमधुरपरिभ्रमणादि कर्मजातम् ॥ __तथा अन्त्यजात्यादिपरिहारेण स्वानुरूपजातियोगित्वमपीत्यादि सव द्रव्यगुणकर्मादि सक्ति'कारणमनुक्तं स्यात् ।।
[सूत्रयोजनायां पक्षभेदः] तत्र केचित्-पृथिव्यादिगुणा इति द्वन्द्वसमासं व्याचक्षते-पृथिव्यादीनि च गुणाश्चेति । पृथिव्यादिपदेन गुणाधिकरणमवयवि द्रव्यमुक्तम्। आश्रितत्वविशेषणाभ्यां सर्वे गुणा इति । गुणग्रहणेन संख्यापरिमाणादिवत् कर्मसामान्याद्यपि सर्वमुक्तम्। अतो नासंग्रह इति ॥
तदिदमनुपपन्नम-गन्धादिग्रहणस्य हि तदानीमानर्थक्यम , 'गुणाच' इत्यनेनैव गतार्थत्वात् । विशेषख्यापनार्थं तदुपादानमिति चेत् ; तर्हि किं द्वन्द्वसमासवर्णनेन ? अयमेवास्तु समाधिः ॥
* प्रथमस्य-प्रधानस्य । + सक्तिः -आसक्तिः, राग इति यावत् ॥ * विशेषः-गुणेष्ववान्तरविभागः ॥
1 रहसि-
च
न्धि -ख.