SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ 381 अष्टममाहिकम् 'तस्मादिमानि विषयप्रसभोपभोग लुब्धानि चोरचटुलानि यथेन्द्रियाणि । पुंसो भवाब्धिपतितस्य विवेकरत्नं . आनन्ददायि न हरन्ति तथा विधेयम् ॥ [इन्द्रियार्थपरीक्षा ] गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणास्तदर्थाः ॥ ॥ १-१-१४ ॥ 'तदर्थाः' इत्यत एवापकृष्य वा, प्रक्रमाद्वा 'अर्थाः' इति लक्ष्यपदं दर्शयितव्यम् । 'तदर्थाः' इति लक्षणम् । तदिति प्रक्रान्तेन्द्रियपरामर्शः। तेषां अर्थाः विषयाः इन्द्रियविषया अर्था इत्यर्थः । एतच्च तेषां सामान्यलक्षणम् । गन्धरसरूपस्पर्शशब्दा इति विभागः ॥ __ [इन्द्रियलक्षणानि ] . विशेष लक्षणं तु पुनः 'तदर्थाः' इत्येवं योजनीयम् । तदिति घ्राणादीनां विशेषसंज्ञानिर्दिष्टानामवमर्शः। एवंच घ्राणस्य विषयों गन्धः) रसनस्य विषयो रसः-इत्यादिविशेषलक्षणमुक्तं भवति। गन्धत्वादीनां तु घ्राणादिग्राह्यत्वादतिव्याप्तिरिति पृथिव्यादिगुणा इति विशेषणोपादानम्। ते चामी गन्धादयः इन्द्रियार्था भोग्यास्सन्तः सक्तिहेतवः संसार माणमावहन्तीति हेयतया भावयितव्याः* || * 'प्रकर्षण मेयम्'-प्रमेयमिति व्युत्पत्त्या हेयतया मुमुक्षुज्ञेयत्वमुक्तम् ।। 1 तानि-ख ३ क्ष्यम्-च, घ सामान्य-खा
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy