________________
380
न्यायमञ्जरी
[ वाचः इन्द्रियत्वानुपपत्तिः] वागिन्द्रियं तु सुतरामहृदयङगमम्। संयोगविभागनिर्वयों बाह्यः शब्द उपलभ्यते। तद्भदा'च्च भिद्यते। यादृशो हि भेरीदण्डसंयोगजः शब्दः, न तादृशः *कूर्मीकोणसंयोगजः। एवं विचित्रस्थानकरणसंयोगात् विचित्रो वर्णात्मकः शब्द उदेतीति न वागिन्द्रियं नाम किंचित् ॥ .
लोकश्च वाक्च्छब्देन वर्णात्मकमेव शब्द व्यपदिशति । शब्दश्चेन्द्रियविषयः, नेन्द्रियम् । तस्मादनेकविधदुःखोपभोगक्षेपक्षमकर्मपरिणामनिर्मितमेतच्छरीरं तैस्तैरवयवैः तं तं कर्भफलोपभोगमात्मनः संपादय. तीत्यलं एवंविधेन्द्रिय कल्पनार्जवेन ||
- [मन एकमेवान्तरिन्द्रियम् ] : अन्तःकरणम्यापि त्रैविध्यामनुपपन्नम् , एकेन मनसैव पर्याप्तेः । बुद्धिस्तु उपलब्धिस्वभावत्वात् करणकार्य, न तु करणम्। अहङकारोऽपि ज्ञानविषय एव, न करणम्। एतच्च सविस्तरं बुद्धिलक्षणे वक्ष्यामः। तस्मात् न त्रयोदशविध, करणमिति सिद्धम् ॥
न्यूनाधिकत्वशमनादत इन्द्रियाणि
पंचैव बाह्यविषयाधिगमक्षमाणि । अन्तस्सुखादिविषयग्रहणोपयोगि षष्ठं मनस्तु कथयिष्यति सूत्रकारः॥
* कूर्मी-वाद्यविशेषः ॥ + मनोबुद्धयहङ्कारभेदेन त्रिविधमन्तःकरणमिति सांख्याः ॥ * पञ्च ज्ञानेन्द्रियाणि, पञ्च कर्मेन्द्रियाणि, वीण्यन्तःकरणानि ॥
1 श्च विद्यन्ते-ख
- ज-ख.