________________
378
न्यायमञ्जरी
तेनाधिष्ठानभेदेऽपि कार्यकत्वस्य दर्शनात् ।
तत्सामान्यस्य चैकत्वात एकत्वं श्रोत्रचक्षुषोः ॥ __ न चेन्द्रियजातेरैक्यात् एकमिन्द्रियम् ; कार्यस्योपलब्धिलक्षणस्य कारणस्य गन्धादेः अधिष्ठानस्य त्रिपुटिकादेः गतेश्च 'बहिःप्रसरणात्मिकायाः, आकृतेश्च परिमाणस्वभावाया जातेश्च घ्राणत्वादेः, जातिशब्दवाच्यस्य योनेर्वा पृथिव्यादेः पंदविधत्वात पंवैवेन्द्रियाणि कल्प्यन्ते। यथा परमाणुत्वसामान्याविशेषोऽपि पृथिव्यादिचतुर्विधकार्यदर्शनात् चतुर्विधाः परमाणवः कल्प्यन्त इति ॥
[ कर्मेन्द्रियाणामावश्यकता] ननु ! तयापि न पंचेन्द्रियाणि। 'कथम् ? *बुद्धीन्द्रियवत् कर्मः . न्द्रियाणामपि पंचानामुपसंख्येयत्वात् । तदुक्तम्
'वाक्पाणिपादपायूपस्थाः कर्मेन्द्रियाण्याहुः' ॥ , तेषां च वचनादानविहरणोत्सर्गानन्दात्मकपंचविधकार्यसाधनादिन्द्रियत्वं, तत्कार्यस्यानितरेतरसाध्यत्वादिति ||
[ अतिरिक्तकर्मेन्द्रियनिरासः] अत्राह-अत्यल्पमिदमुच्यते-पंच कर्मेन्द्रियाणोति । अन्यान्यपि खलु न सन्ति कर्मेन्द्रियाणि? तथा हि-कण्ठोऽन्ननिगरणेन, स्तनकलशालिङगनादिना वक्षः, भारवहनेन चांसद्वयं इन्द्रियमुच्यते न कथम् ? तत्कार्यस्य शरीरावयवान्तरेऽपि दर्शनादिति चेत्-किन्नु भवानन्नपानं
* बुद्धीन्द्रियं-ज्ञानेन्द्रियम्॥
1 श्च-ख
बु-ख.