________________
अष्टममाहिक
377 [स्वगिन्द्रियैकान्तवादनिरासः उच्यते-कुतोऽयमपूर्व एष महाप्राज्ञो वादी *सरलमतीनस्मान वंचयितुमागतः, योऽत्रयवविशेषे शक्तिविशेषमाश्रयन्नपि एकमिन्द्रिय मन्यते। शक्तिभेदादाश्रयभेदाच्च नानात्वमेवैतदिन्द्रियाणां युक्तमित्यल महात्मभिस्सह कलहेन ॥
मनुष्यस्सह संवादो मादशानां हि शोभते । देवास्तु नररूपेण त इमे भान्ति वादिनः ॥
. [चुक्षुःश्रोत्रयोरेकैकेन्द्रियत्वम् ] ननु ! नानात्वपक्षेऽपि पंचत्वनियमः कथम ।
द्वे श्रोत्रे चझूषी द्वे च कथं ते एकमिन्द्रियम् ।। आह च-सव्यष्टस्यतरेण प्रत्यभिज्ञानात-(गौ, सू. 3-1-7) इति । चक्षुष्ट्वजातेरेकत्वादिति चेत्-त.न्द्रियत्वजातेरेकत्वात् एकमेवेन्द्रियं स्यात-उच्यते-चक्षुस्तावत्तेज इति निर्णीतम। तच्चकमेव, तदधिष्ठा. नमप्येकमेव °घोणा वंशव्यवहितमनेकमिवोपलभ्यते ॥
भिन्नं वा तद्भवतु। तेजस्तत्ककार्यक्यात् आश्रयभेदेऽप्येकमेव श्रोत्र मपि कर्णच्छिद्रद्वयानुस्यूतमेकमेव नभोदेशप्रायं वेदितव्यम् , कार्यक्यस्य तत्रापि भावात् ॥
* एवं सति सर्वप्राणिनां इन्द्रियमेकमेव, शरीरभेदात् कार्यवैलक्षण्य मिति स्यात् । इष्टापत्तौ च सर्वात्मनामैक्यं स्यादिति नर्मोक्त्या समाधत्ते-सरलेत्यादिना ॥ __+ नानात्वम्-इन्द्रियनानात्वम् ।।
1 पंचा-
ख
णामु-च
३ घ्राण-खः