________________
376
भ्यायमञ्जरी मिति गन्धस्यैव विशेष्यते। सोऽयमसिद्धो हेतुर्भवेत् , गन्धत्वस्यापि घ्राणव्यङग्यत्वादिति रूपादिमध्य इत्युक्तम् । तथापि सन्निकर्षण व्यभिचार इति तद्व्युदासायं दृश्यत्वे सतीति विशेषणम् ॥
एवं रसनादिष्वपि प्रयोगा रचनीयाः। श्रोत्रं त्वाकाशैकदेश इति शब्दाधिकरणे निर्णीतम्। गन्धादिविषयोपलब्धिनिबन्धनसुखदुःखोपभोगहेतुभूतः धर्माधर्मोपनिबद्धानां चेन्द्रियाणामिन्द्रियत्वमिति तद्वशात् यथा यथा नियत विषयग्रहण'क'रणता घटते, तथा तथा कल्प्यत इति सर्वमनवद्यम् ॥ ...
[स्वगिन्द्रियैकान्तवादः] आह-भवन्तु भौतिकानीन्द्रियाणि ; पंचेति तु न युक्तमुक्तम् । त्वर्गव ।कमिन्द्रियं भवितुमर्हति, सर्वत्रानपायात् ॥
करतलकपोलकण्ठादितिनाऽपि त्वगिन्द्रियेण रूपोपलम्भप्रसङग इति चेत्-न-*अवयव विशेषे शक्तिविशेषनियमात् । न हि पाणिना पादेन वा उपस्थकार्यं कर्तुं शक्यते। अस्ति च अवयर्वविशे षे स्वभाव. विशेषवैचित्र्यम् ॥
तुषारकर्पूरापूर्णवारिण्युत्तरमानसे । यथा च वृषणौ स्नातुः स्फुटतो न तथा स्फिचौ॥ क्लिन्नातणकाष्ठादिधूमेन कटुना यथा ।
मूर्धाक्षिवेदनोदेति न तथाऽवयवान्तरे ॥ तस्मात् अवयवविशेषव्यवस्थितनानाशक्तिखचितं त्वगेवैकमि न्द्रियमिति ।।
* अवयवाः-जिह्वानासिकादयः ॥ । उत्तरमानसम्-मानससरोवरोत्तरक्षेत्रम् ॥