________________
अष्टममाह्निकम्
375 च पृथिव्यादिस्पर्शस्य ? तदिदं प्रकृतिनियमेऽपि कथं विषयसांकर्यमिति -नैषदोषः-रूपादिविषयविषयोऽपि ह्येषां नियमः न तदाश्रयविषयः । तैजसं हि प्रदीपादि द्रव्यं 'रूप'सेव प्रकाशयदृश्यते, न तेजोवृत्त्येव रूपमा आ प्यमपि द्रव्यं रसमेव व्यनक्ति, न तु सलिलस्थमेवेति। घ्राणे तु न कश्चिद्दोषः, तद्ग्राह्यस्य गन्धप्य पृथिव्येकवृत्तित्वादिति ॥
द्रव्यस्यापि दर्शनस्पर्शन ग्राह्यस्वनविरुद्ध मित्थं भौतिकत्वेऽपीति ॥
[इन्द्रियैः महद्वस्तुग्रहणोपपत्तिः] यतक्तं महदणुग्रहणान्न भौतिका नीन्द्रियाणीति-परिहतं तता गोलकाद्यधिष्ठानातिरिक्तस्येन्द्रियस्य दर्शितत्वात् । तच्च विततत्वद्विततग्राहि भवत्येव। विततेनापि च "तेजसाणद्रव्यं प्रकाश्यमानं दृश्यते दीपादिना तण्डुलादीति । अतोऽपि 'नाहङकारिकत्वम् ॥
[इद्रियैः स्वगुणाग्रहणम् ] यत्पुनरभ्यधायि-भौतिकत्वे परगुणवत् स्वगुणस्यापि प्रकाशक मिन्द्रियं स्यादिति-तदयुक्तम्-सगुणस्येद्रियस्येन्द्रियभावात् । इन्द्रियेण हि सता तेन विषयः परिच्छिद्यते। सगुणस्य चास्येन्द्रियत्वं, स्वगुणरहितं तत् इन्द्रियमेव न स्यात | अनिद्रियं च कथं ग्राहकम? अतः इन्द्रियगुणानां प्रमाणकोटयन्तःपातित्वात् न तत्प्रमेयत्वम् । तस्मा भौतिकानीन्द्रियाणि स्वं स्वं विषयमुपलभन्त इति सिद्धम् ।।
. [इन्द्रियाणां भौतिकत्वसाधकानुमानम् ]
प्रयोगस्तु-पाथिवं घ्राणं, द्रव्यत्वे सति रूपादिमध्ये गन्धस्यैव व्यं चकत्वात् , *गन्धयुक्तिद्रव्यवत् । तत्र व्यंजकत्वमात्रमनैकान्तिक
___ * सुगन्धद्रव्यसजीकरणसंस्कारागुपयोगिद्रव्यम् ॥
1 रस-ख,
'धू-ख,
3 नी-ख,
पि-ख,
अ-ख.