________________
374
· भ्यायमञ्जरी ग्रहणानुपपत्तः गोलकचक्षुःपक्षः भिक्षुत्प्रेक्षितः प्रेक्षावतां हृदयेषु न विश्राम्य तीति प्राप्यकारि तेज एव चक्षुरिति स्थितम् ॥
[इन्द्रियाणां आहंकारिकत्वानुपपत्तिः] इत्थं भौतिकेन्द्रियवादेऽपि प्राप्यकारित्वसिद्धः न कापिलकथितः माहङकारिकत्वमिन्द्रियाणामुपपद्यते ॥
ननु ! पक्षद्वयेऽपि प्राप्यकारित्वोपपत्तेः कोऽयं भोतिकत्वं प्रत्यभिनिवेशातिशयो भवतामिति - उच्यते-*एकप्रकृतिकत्वे हीन्द्रियाणां एकमेव सर्वविषयप्रकाशनकुशलमिन्द्रियं भवेत, सर्वाणि वा सर्व विषय ग्राहीणि भवेयुः, कारण स्याविशेषात् । कारणनियमाधीनो हि कार्य-. नियमः। अहङकाराख्यं च कारणं सकलविषयप्रकाशनशक्ति युक्तम् । . इन्द्रियाण्यपि तथा भवेयुः। एकविषयप्रकाशनशक्तियुक्ते तस्मिन् कथमिन्द्रियान्तराणि विषयान्तरग्राहीणि भवेयुः ? भोतिकत्वे तु भूतानां भेदात् नियतगुणोत्कर्षयोगित्वात् नियतविषयग्राहीन्द्रियप्रकृतित्वम् ॥
तथा च प्रदीपादितेज. रूपरसाधनेकविषयसन्निधानेऽपि रूपस्यैव प्रकाशकमुपलब्धम् । अतस्तेजःप्रकृति चक्षुरिन्द्रियमपि रूपस्यैव प्रकाशकं भवितुमर्हति । एवमिन्द्रियान्तरेष्वपि वक्तव्यम। तदेष विषयनियमः प्रकृतिनियमकारित इन्द्रियाणामिति भौतिकानीन्द्रियाणि ||
[चक्षुरादिभिः रूपादिग्रहणोपपत्तिः] यद्येवं तैजसेन चक्षुषा कथं पार्थिवस्य रूपस्य ग्रहणम ? पथिव्या एव वा ? आप्येन च रसनेन पार्थिवस्य रसस्य ; वायवीयेन स्पर्शनेन्द्रियेण
* एकप्रकृतिकत्वम्-एकोपादानकत्वम् । अहंकारतत्त्वात् सर्वेन्द्रियाणां युगपत उत्पत्तिरिति सांख्याः ॥
1 क-ख,
युस्ते-ख
३ शी-ख