________________
373
अष्टममाह्निकम्
. [चाक्षुषतेजसः वेगातिशयः] यत्तु-कुतो नयनरश्मेरीदृशी गतिः, गगनमाक्रम्य यद्गभस्तिमालिनं स्पृशति, न प्रतिहन्यते च सावित्रेण वेगवता तेजसेति–उक्तमत्र दृष्टानुमितानां नियोगप्रतिषेधानपपत्तिरिति। कार्य सतया हि तथाविधं कारणं कल्प्यते, यददूरमपि प्रसरति, प्रसरदपि परेण न निरुध्यते। दृष्टश्वानिरोधो भर्जनकपालादौ तेजसः पच्यमानद्रव्यपाकसिद्धेः। कलशे च निषिक्तानां अपां बहिःशीतस्पर्शग्रहणात् अनिरोधः। एवं नयनरश्मेरपि भविष्यति । न तु गोलकस्यैव शक्तिकल्पना लघ्वीति वक्तव्यम, प्राप्यकारिकारकस्वरूपपरित्यागप्रसङगात् । प्राप्यकारीणि चक्षुःश्रोत्रे, त्वगादिवत् इति ॥
[इन्द्रियाणां आश्रयातिरिक्तत्वम् ] अत एव सर्वेन्द्रियाणां प्राप्यकारित्वम् पश्यद्भिः शास्त्रज्ञैः इन्द्रियार्थसन्निकर्षः षटप्रकारो व्याख्यातः। प्राप्यकारिता च न गोलकस्योपपद्यते, तदप्राप्तस्य पर्वतादेग्रहणात् , प्राप्तस्य च प्रत्युतांजनशलाकादेरग्रहणात् । अतो न गोलकं चक्षुः॥
[गोलकसंस्कारेण चक्षुषः अतिशयलाभः ] *चिकित्सादिप्रयोगस्तु गोलके यः प्रवर्तते । - सोऽयमाधारसंस्कारः आधेयस्योपकारकः ॥ अत एव गोलकगुणदोषानुवतित्वमपि विषयोपलब्धेर्घटमानम्, आधार द्वारकै हि तदाधेयस्यैव तौ गुणदोषाविति । तस्मात् अप्राप्तविषय.
___ * वैद्यकचिकित्सादीनां गोलक एव खलु प्रयोगः, न तु इन्द्रिये; तस्या तीन्द्रियत्वादित्याक्षेपयेयेदं समाधानम् ॥
1 बलव-च
३व्ये प्राप्ता त्वना-ख.