________________
372
... न्यायमञ्जरी भास्वरं च कार्तस्वरादौ तैजसद्रव्य रूपमुपलभ्यते, नोष्णस्पर्शः ॥
उदकान्तर्गते च तेजसि ज्वलनतप्ते जले ज्वलनगुणः उष्णस्पर्शोऽनु भूयते, न भास्वरं रूपमिति ॥ ___ एवमिह नयनरस्पी तेजति द्रव्ये द्वावपि रूपस्पशौं नोपलभ्यते इंति कमुपालभेमहि ॥
उक्तं च *दृष्टानुमितानां च नियोगप्रतिषेधानुपपत्तिः प्रमाणस्य ' तत्त्वविष यत्वा'त्' (न्या. सू - 3-150) इति ॥
[चक्षुस्तेजसः क्वचिदुपलंभः] न च सर्वत्र नयनरश्मेरनुपलम्भः । क्वचिद्धि पृषदंशप्रभृतीनां नक्तंचरणां निशि निबिड तमतमःपंकपटलावलिप्ते वेश्मनि संचरतां चाक्षुषं तेजः भास्वरं रूपं दूरमपि प्रसरदुपलभ्यत एव । अन्यत्र मध्यन्दिनोल्काप्रकाशवदग्रहणमस्मदादिनयनरश्मेः॥ .
अयं तु विशेषः-उल्कारूपस्य दिवाकरकरविभवाभिभूतत्वादग्रहणम्, नयनरश्मिरूपस्य त्वनुद्भूतत्वादेवेति ||
[ काचाद्यान्तरितानां ग्रहणोपपत्तिः ] . , यत्तु काचाभ्रपटलस्फटिकान्तरितपदार्थोपलम्बनं ; तत्र काचादीना केषांचित् अतिस्वच्छत्वात्, केषां चिच्च सुषिरत्वात् चाक्षुषतेजःप्रसर निरोधकौशलं नास्तीति नाप्राप्यकारित्वं चक्षुषस्वावता भवति ।
__* प्रत्यक्षतः, अनुमानतो वा यत् यथा प्रतिपन्नम्, तत्तथैव। तत्र 'एवमेव भवतु', तथा मा भवतु इति विधिनिषेधौ न संभवतः। प्रमाणं खलु तद्विषय ध्यवस्थापक मित्यर्थः॥ .
* पृषदंश:-मार्जाल: ॥
1 या-ख,
त-ख.