________________
371
अष्टममाह्निकम्
[प्राप्यकारित्वोपपादनम् ] प्राप्यकारिता च श्रोत्र'स्य तावत् 'वीची सन्तानसदृशशब्दपरम्परारम्भणद्वारेण दशिता शब्दाधिकरणे ॥ .
घ्राणस्यापि समीरणान्दोलितकुन्दलतादिप्रसृततत्परिमाणनिकराधिकरणगन्धग्रहणात् प्राप्यकारिता। न च परमाणूनामपसर्पणे द्रव्यपरिक्षयाद्याशंकनीयम् ; भूयस्त्वात्परिमाणूनाम् । अत एव गन्धद्वारकतद्रव्यसम्पर्कदोषनिहरणाय प्रायश्चित्तमशुचिद्रव्यघ्राणे समामनन्ति ॥
चक्षुषस्तेजः प्रसरणात् प्राप्यकारिता। अनुपलभ्यमानं तेज इति चेत् किं चन्द्रमसः परभाग उपलभ्यते, पृथिव्याश्चाधोभागः ? न ख ल प्रत्यक्षकशरणाः पदार्थाः। अनुमानादिभिरप्येषामुपलम्भः सम्भवत्येव । उक्तं चानुमानम्। रूपोपलब्धिकार्येग तैजसमेव चक्षुरनुमोयते । तेजोद्रव्यं हि दीपादि रूपस्य प्रकाशकं दृष्टमिति ॥
.. - [चाक्षुषतेजसः अप्रत्यक्षत्वम् ] . प्रत्यक्षेण तु नायनं तेजः किमिति नोपलभ्यत* इति चेत्-उच्यते • -विचित्रा हि द्रव्यगुणानामुद्भवाभिभवादिवशेन गतयो भवन्ति । तद्यथा
-सर्वतः प्रसरता बहलबहलेन शीतस्पर्शाश्रयेण द्रव्येण व्याप्तौ हेमन्तशिशिरौ ऋतू भवतः । निराधारस्य शीतस्पर्शगुणस्यानुपलब्धः। अथः' सत्यपि तत्र सलिलद्रव्ये तद्गुणस्य शीतस्पर्शस्यैवोपलबिधिः, न शुक्ल. रूपस्येति ॥
तेजोद्रव्येण च निरर्गलं विजृम्भमाणेन भूयसा ग्रीष्पो भवति । तत्र सत्यपि तेजोद्रव्ये तद्गुणस्योष्णस्पर्शस्यैव ग्रहणम् , न भास्वररूपस्येलि ॥
___* तम्य बहिः प्रसराङ्गीकारत् ॥
___ 1 द्योत- ख,
देह-ख,
त:-च.