________________
370
न्यायमञ्जरी [इन्द्रियाणामप्राप्यकारित्वपक्षः] ननु च ! *प्राप्यकारित्वमेव चिन्त्यं वर्तते । तद्धि रसनस्पर्शनयोः केवलमवलोक्यते लोके। चक्षुःश्रोत्रे तु दूरदेशव्यवस्थितविषयग्राहिणी कथं प्राप्यकारिणी स्याताम् ॥ ____घ्राणं तु त्रिपुटिकानिकटनिहितपदार्थगन्धपि गृह्णाति, दूरतोऽपि च प्रचलदनिलबलवेल्लितफुल्लमल्लिकादिसौरभमुपलभते । त्रिपुटितकोप: कण्ठढौकितेनापि द्रव्येण न तस्य सन्निकर्ष इति तदप्यप्राप्यकार्येव तस्माच्छक्तिविशेषणमधिष्ठानमेव तत्तदिन्द्रियमिति गृह्यताम् । उत्सृज्यतां प्राप्यकारित्वपक्षः ॥ चक्षुषि चन्द्रार्कग्रहादिग्राहिणि नितरां प्राप्यकारित्वमित्युक्तमेव ॥
___ [इन्द्रियाणां प्राप्यकारित्वपक्षः] अत्रोच्यते-न प्राप्यकारित्वमुत्स्रष्टुं शक्नुमः । कारकत्वमेव तथा सत्येषामुत्सृजेम। कारकं च, अप्राप्यकारि चेति चित्रम् ॥
अदृष्टमपि कारणमात्मनो व्यापकत्वात् तद्वत्तिधर्माधिकं 'ना प्राप्य. कारि भवेत् ; किमुत दृष्टं चक्षुरादि कारकमिति ॥
अप्राप्यकारित्वे च शक्तेरविशेषणात् कुड्यादिव्यवहितमपि वस्तु चक्षुषा दृश्येत । तत्र कार्यानुपलम्भान्न शक्तिः कल्प्यत इति चेत्-कि शक्तः कल्प्यताम , किं तेज इति संप्रधारणायां तेजसो द्रव्यत्वात् व्यवधानादि अनुगुणम्, अमूर्तायास्तु शक्तः व्यवधानमबाधकं भवेदिति तेज एवेन्द्रियं कल्पनीयं, न शक्तिः, शक्तिमदधिष्ठानं वा॥ .
* इन्द्रिय स्वसम्बद्ध वस्तु गृह्णातीति पक्षः प्राप्यकारित्वपक्षः । असंबद्धं गृह्णातीति पक्षः विपरीत:.बौद्धानाम् । संबन्धः-सन्निकर्षः ॥
घ्राणेन्द्रियं न द्रव्यग्राहकम् ॥