________________
369 अष्टममाह्निकम् गहीतम; अन्यथा कथमित्थमकथायष्यः। स चायमायुष्मतो महान भ्रमः। न खलु कृष्णसारं चक्षुः; तदधिकरणं तु तेजः चक्षुः । तच्च वेगवद्रव्यत्वात् दूरमपि प्रसरतीति कोऽस्य प्राप्यकारितायां मादः॥
[चक्षुषः गोलकरूपत्वाक्षेपः]
ननु ! गोलकेऽपि चिकिप्सादिप्रयोगात् , गोलकगुणदोषानुवर्तित्वाच्च विषयोपलब्धः गोलकमेव चक्षुः स्यात् । अनुपलभ्यमानं च तेजः कथमिन्द्रियमुच्यते।. कथं च तेजसा वेगवतापि विस्फारिते चक्षुषि सहसैव योजनशतसहस्रव्यवहितसितकरतरणितारकादि ग्रहीतुं शक्येत ? कथं वा तदल्पकं वराकं नायनं तेजः समन्ततः प्रसरता सकलभुवनप्रथितप्रभावेन महीयसाऽपि मिहिरम हप्ता प्रतिहतगति भवेदिति भास्करदर्शनं इत्थं न सम्पद्येत । तेजःपक्षे च काचाभ्रकपट ल स्पटिकान्तरितपदार्थोपलब्धिः कथं समर्खेत । तस्माद्वरं शक्तिविशेषयुक्तं गोलकमेव, साधो ! चक्षुरभ्युपगच्छति ||
__ [चक्षुषः गोलकातिरिक्तत्वम् ] उच्यते न खलु भवदनुशासनेन युक्तिविरुद्ध मर्थ मभ्युपगच्छामः प्राप्यकारि हि कारकं दृष्टम् । कृष्णसारपक्षे च कुतः प्राप्यकारित्वम् ? शक्तिरपि कल्प्यमाना निराश्रया न परिकल्पनीयैवेति तदाश्रयचिन्ताय । न गोलकमात्रमाश्रयो भवितुमर्हति, अप्राप्यकारित्वप्रसंगादिति तदधिकरणं* तेज एव शक्ते राश्रयो भवेत् ॥
* ताधिकरणं-तदाधिकरणकम् ॥
। दयनि-ख,
बाल---रह,
पक्ष-ख,
'योक्ते-ख.
24