SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ 368 न्यायमञ्जरी [इन्द्रियाणां प्राप्यकारित्वे सांख्यपक्षः ] ननु ? एतत्परीक्षणीयं वर्तते। किं भौतिकानामिन्द्रियाणां स्वविषयग्रहणकरणत्वं, उतान्यथेति ॥ एवं हि साङख्याः संप्रवदन्ते-आहङ कारिकाणीन्द्रियाणि अर्थ साधयितुमर्हन्ति, नान्यथा। तथा हि-कारकं कारकत्वादेव. प्राप्यकारि भवति। भौतिकानि चेन्द्रियाणि कथं प्राप्यकारीणि दूरवर्तिनि विषये भवेयुः। आहङकारिकाणां तु तेषां व्यापकत्वात्* विषयाकारपरिणामा.. त्मिका वृत्तिवृत्तिमतोऽनन्या सती संभवत्येवेति सुवचं प्राप्यकारित्वम् || . [इन्द्रियाणामाहंकारिकत्वे युक्तिः] अपि च महदणुग्रहणमाहङकारिकत्वे तेषां कल्पते, न भौतिकत्वे । भौतिकत्वे हि यत्परिमाणं ग्रहणं तत्परिमाणं ग्राह्यं गृह्णीयात् : अस्ति च गोलकादधिकपरिमाणस्य पटपिठरादेब्रहणं, हीनपरिमाणस्य च वटधाना देः। अतोऽपि न भौतिकानीन्द्रियाणि ॥ __ भौतिकानामपि दीपादीनां परं प्रकाशयतां स्वात्मप्रकाशकत्वमपि दृष्टम् । एवमिन्द्रियाण्यपि पटादिस्वरूपं प्रकाशयन्ति स्वरूपमपि "प्रकाशयेयुः। न च प्रकाशयन्तीत्यतोऽपि न भौतिकानि ॥ [इन्द्रियाणां प्राप्यकारित्वे सिद्धान्तः अत्राभिधीयते—यत्तावत् प्राप्यकारित्वं भौतिकत्वपक्षे नावकल्पत इति जल्पितवानसि, तन्मन्ये-नूनं त्वया गोलकमेव चक्षुरिति चेतसि * भूतापेक्षया व्यापकत्वम् ।। 1 प्रामा-क, च-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy