________________
367
अष्टममाह्निकम्
शृणोत्यनेनेति श्रोत्रं, शब्दं गृह्णातीति "शब्दोपलब्धावसाधारणं कारणं श्रोत्रम् । तच्चाकाशैकदेशत्वादनाश्रितमपि कर्णशष्कुल्यधिष्ठानमुच्यते । तदेवं विशेष लक्षगानि पंच पंचनामुक्तानि भवन्ति ॥
[इन्द्रियाणां बन्धहेतुत्वम् ] .. तानीमानीन्द्रियाणि स्वविषयग्रहणलक्षणानि आत्मनो भोगसाधनत्वात् संसारकारणानीति हेयतया भावयितव्यानि । तथा भाव्यमानानि निर्वेदोत्पादनादिद्वारेण अपवर्गाय कल्पयिष्यन्त इति ॥
. [इन्द्रियाणां भौतिकस्वम् ] 'भूतेभ्यः' इति किमर्थम् ? उक्तं हि इन्द्रियाणां स्वविषयग्रहण लक्षणत्वम्। तत्र न भूतग्रहणं लक्षणार्थम्, अपि तु तद्विनिश्चयार्थम् । यथा 'आप्तोपदेशः शब्दः' इत्यत्राप्तग्रहणं लक्षणविनिश्चयार्थम्। स्वस्वविषयोपलब्धिलक्षणत्वं हीन्द्रियाणां भूतप्रकृतित्वे सति निर्वहति नान्यथेति ॥ . . .
. [इन्द्रियाणां भौतिकत्वं कीदृशम् ? ] . तानि पुनरिन्द्रियाणां कारणानि पृथिव्यप्तेजोवायुराकाशमिति भूतानि । एभ्यः पंचभ्यः-यथासङख्यं घ्राणरसनचक्षुस्त्वक्श्रोत्राणि पंश्चेन्द्रियाणि भवन्ति । भूतप्रकृतित्वमिति भूतस्वभावत्वं व्याख्याय मानं पंच स्वपि संभवति। भूतकारणकत्वं तु अन्येषु* चतुर्ध्वपि तथैव। श्रोत्रे तु कथंचित् कर्णशष्कुल्यवाच्छिन्ननभोभागाभिप्रयेण व्यवहारतः समर्थनीयम्। एवं सति भौतिकानीन्द्रियाणि स्वं स्वं विषयमधिगन्तुमुत्सहन्त इति तल्लक्षणत्वमेषां-सिद्धयतीति । अतो 'भूतेभ्यः' इत्युक्तम् ॥
___ * पृथिव्यप्तेजोवायुषु॥
1 ल-ख.
वसानं दिवादिभ्यो भूतेभ्यः संभवति । तदवनती पंच-ख.