________________
366
. न्यायमञ्जरी [ चक्षुरादिलक्षणम् ] विशेषलक्षणानि तु पंचानां पंच समाख्यानिर्वचनसामार्थ्यात् प्रमाण. वदवगन्तव्यानि ॥
जिघ्रत्यनेनेति प्राणं गन्धं गृह्णातोति, गन्धोपलब्धावसाधारण. कारणं घ्राणम् ॥
_ 'रसयत्यनेनेति रसनं, रसं गणातीति रसोपलब्धावसाधारण कारणं रसनम् ॥
चष्टोऽनेनेति चक्षुः, रूपं पश्यतीति रूपोपलब्धावसाधारणं कारणं चक्षुः ईक्षणं लोचनं तदुच्यते ॥
स्पृश्यत्यनेनेति स्पर्शनम्, स्पर्श गृह्णातीति स्पर्शोपलब्धावसाधारणं कारणं स्पर्शनम्॥
स्पर्शनमिति वक्तव्ये त्वग्ग्रहणं *उपचारात् 'मंचाः कोशन्ति' इतिवत् तदधिष्ठानत्वं दर्शयितुम् । यथा त्रिपुटिकाधिष्ठानं घ्राणं, जिह्वाधिष्ठानं रसनम्, गोल काधिष्ठानं चक्षुः, तथा त्वाधिष्ठान स्पर्शनम्, शिरःप्रभृत्यापादाङगुष्ठं स्पर्शोपलम्भात् । त्वगिति च.न बाह्यमेव चर्म केवलमुच्यते, अपि तु सकलशरीरव्यापि; तुहिनकाशि शिरसलिलपान समये अन्तर्हृदयेऽपि शीतस्पर्शोपलम्भादिति ॥
[इन्द्रियाणामाश्रयाः] स्वावयवसमवायित्वेऽपि चेन्द्रियाणां त्रिपुटिकाद्याश्रयत्वं आश्रयत्वमात्रापेक्षयोच्यते, न समवायित्वादिति ||
* 'स्व' पदं इन्द्रियवाचकमपीति केचन।
1 च-
ख
त्
प्रयुक्तं-च,
व-च,
सकलत्व-ख.