________________
8.d
न्यायमञ्जरी [ भट्टोक्तजातिवादः ] भाट्टास्तु ब्रुवते-भिन्नाभिन्न मेकं वस्तु अनुयायि च व्यावृत्तं च । यत् तस्यानुगामि रूपं, तत् सामान्यम् ; यत् व्यावृत्तं, स विशेषः। तथा हि' (श्लो. वा. 1-1-5-आकृति. 5)
"सर्ववस्तुषु बुद्धिश्च व्यावृत्त्यनुगमात्मिका ।
जायते दव्यात्मकत्वेन विना *सा च न सिध्यति'। __ केवलविशेषात्मकपदार्थपक्षे सामान्यप्रतीतेरनालम्बनत्वं, सामान्यमात्रवादे च विशेषबुद्धेरनुपपत्तिः ।।-(श्लो. वा• 1-1-5-आकृति. 7)
न चाप्यन्यतरा भ्रान्तिः उपचारेण 'वेष्यते ।
दृढत्वात् सर्वदा बुद्धेः भान्तिः स्याद्धान्तिवादिनाम् ॥ न हि मिहिरमरीचिनिचयनीरप्रतीतिवत्], सामान्यप्रत्ययोपमर्दैन 'विशेष'प्रतीतिः, विशेषप्रत्ययोपमर्दैन वा सामान्यप्रतीतिरुदेति; किन्तु अविरोधेनैव युगपदुभयावभासः । अत एव निर्विकल्पबोधेन व्यात्मकस्यापि वस्तुनो ग्रहणमुपेयते ॥
[भट्टोक्तजातिवादविनिरासः] . तदेतदभिधीयमानमेव न मनोज्ञमिवाभाति ।
नानारूपत्वमेकस्या विरुद्धं वदता स्वयम् । दूषणाख्या नमौखर्यमस्माकमपवारितम् ।।
* सा च बुद्धिरित्यनुकर्षः-वस्तुनः यात्मकत्व-अनुवृत्तिव्यावृत्त्यात्मकत्वंसामान्यविशेषात्मकत्वं विना तादृशी बुद्धिः न भवेत् ॥
*अन्यतरा–बुद्धिरित्यनुकर्षः। अनुवृत्तव्यावृत्तबुद्धयोरन्यतरायाः भ्रमत्वं गौणत्वं वा न वक्तुं शक्यं, कदापि बाधकप्रत्ययाद्यभावात् ॥
निविकल्पेति-अयं विषयः पूर्वसंपुटे 252 पुटे द्रष्टव्यः ॥ मौखर्य-मुखरस्य भावः। 'दुर्मुखे मुखराबद्धमुखौ' ।
1 मेक-ख पं त्वयैकस्य-
ख
' वस्तुबुद्धिर्हि सर्वत्र-ख दा -ख.
' गम्यते-ख
विषय-क