SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ 8-c पश्चममाह्निकम् अश्वधीः शाबलेयादौ उष्ट्रबुद्धिर्गजादिषु । पदार्थसङकरश्चैवं अत्यन्ताय प्रसज्यते ॥७॥ ___ [जातेरतिरिक्तत्वे साङ्कय दुर्वारम् ] अथापि *व्यक्तिसामर्थ्यनियमान्नैष सङकरः ।। न हि कर्कादिपिण्डानां गोत्वादि'व्यक्तिकौशलम् ॥ ८॥ मैवं, खण्डाद्यभिव्यक्तमपि गोत्वमनंशकम्।। सर्वत्रैव प्रतीयेत न वा सर्वगतं भवेत् ॥९॥ तद्देशग्रहणे तस्य न हि किञ्चिनियामकम् । दीपवद्व्यंजकः पिण्डः न तु तत्पिण्डवृत्ति तत् ॥१०॥ सर्वत्रागृह्यमाणं च सर्वत्रास्तीति 'को नयः ? सर्वसर्वगतं तस्मात् न गोत्वमुपपद्यते ॥११॥ पिण्डसर्वग तत्वे तु काममेतवदूषणम् । किन्तु नैवाद्य जातायां गवि गोप्रत्ययो भवेत् ॥ १२॥ . [जातौ अनुपपत्यन्तराणि ] पिण्डे नासीदसंजाते जातिः, जाते च विद्यते । संक्रामति न चान्यस्मात् पिण्डादन्यत्र निष्क्रिया ॥ १३ ॥ आयात्यपि न तं पिण्डं अपोज्झति पुरातनम् । न चांशर्वर्तते तत्र कष्टा व्यसनसन्ततिः ॥१४॥ * व्यक्तिसामयं-अभिव्यञ्जनसामर्थ्यम् || *खण्डगोपिण्डेन भभिव्यक्तं गोत्वं पूर्णशृङ्गगवि कथं स्यात् ? यदि स्यात् , तर्हि गोभिनेऽपि कुतो न स्यात् ? न विति-'पिण्डसर्वगतापि वा' इति किल द्वितीयः विकल्पः ॥ 'न तु तस्पिण्डवृत्ति तत्' इत्यत्र सर्वगतत्वमेव हेतुः || __ 1 नाशक्यं-घ 'क:-क मेऽन्वयः-ख तं तत्र-क.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy