SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ 8-b न्यायमञ्जरी शुक्लादिवचनत्वे नीरूपाणां पवनमनःप्रभृतीनां द्रव्याणां गुणकर्मणां च सामान्यशून्यता स्यात् ॥ आकारवचनत्वेऽपि अवयवसन्निवेशरहितानां तेषामेव गुणादीनां सामान्यवत्तान प्राप्नोति ॥ *स्वाभाववचनत्वे तु जातिजातिमतोरव्यतिरेक एव भवेत् ॥ अवभाति हि भेदेन स्वभावो 'न* स्वभाविनः। शब्दातिरिक्ततवेयं न तु वस्त्वतिरिक्तता ॥५॥ . [स्वरूपस्य संबन्धरूपत्वासंभवः] किंचेदं रूपं नाम ? किं वस्त्वेव? वस्तुधर्मः? वस्त्वन्तरं वां? वस्त्वन्तरं तावन्न प्रतिभातीत्युक्तम् ॥ वस्तुधर्मोऽपि तद्व्यतिरिक्तया स्थितः'.न चकास्त्येव । अव्यतिरेके च सम्बन्धवाचोयुक्तिरनुपपन्नेत्युक्तम् ॥ न च रूपरूपित्वलक्षणः सम्बन्धः संयोगसमवायव्यतिरिक्तः कोऽपि श्रोत्रियः विविच्य व्याख्यातुं शक्यते-यथा ईदृगिति। तस्मात् वाचोयुक्तिनूतनतामात्रमि'ह' कृतम्, न त्वर्थः कश्चिदुत्प्रेक्ष्यत इत्यलं प्रसङगेन। [प्रकारान्तरेण वृत्त्यनुपपत्तिः] . अपि चेयं जातिः *सर्वसर्वगता वा स्यात् पिण्डसर्वगताऽपि वा । सर्वसर्वगतत्वे स्यात् कर्कादावपि गोमतिः ॥६॥ * संबन्धस्य वस्त्वभिन्नत्वे संबन्धिन्या जातेरपि वस्त्वभित्रत्वमावश्यकमिति जातिरिति, घट: कलशः इत्यादिवत् शब्दभेदमात्रं, न तु तस्या अतिरिक्तत्वसिद्धिः ।। ___+'किं वस्त्वेव' इति कल्पस्योत्तरमिदम् ॥ प्रमाणवार्तिकादौ (1, 40-163 श्लो) विस्तरेणोक्तं संगृह्णाति-सर्वेत्यादि । सर्वसर्वगता-सर्वस्मिन्नपि व्याप्ता | कर्कः-सिताश्वः ॥ शाबलेयः-चित्रगौः ॥ 1 त्तां-घ । हि-घ ' तौ-घ । दं-घ.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy