________________
पञ्चममाह्निकम्
8-a [ युतसिद्धिशब्दार्थनिर्णयः] - यदपि नित्यानित्यविभागेन 'युत सिद्धेः स्वशास्त्रे परिभाषणं कृतं'नित्यानां परमाणूनां पृथग्गतिमत्त्वं युतसिद्धिः। अनित्यानां तु *युताअन्य समवायित्वम् । विभूनां परस्परमाकाशादीनां सम्बन्ध एव नास्ति, (प्र. भा. गुण) इति तदपि प्रक्रियामात्रम्-नानात्वेन सिद्धिः-निष्पत्तिः, ज्ञप्तिर्वा युतसिद्धि रित्युच्यते। तद्विपर्ययादयुतसिद्धिः-ऐक्येन सिद्धिरवतिष्ठते। तथा च सति सम्बन्धो दुर्वचः॥
. [अवयवावयविनोरपि समवायासंभवः ] · अवयवावयविनोरपि समवायात्मा सम्बन्ध एवमेव परिहर्तव्यः । यथाऽऽह भट्टः-(श्लो. वा. 1-1-4-146) .. 'नानिष्पन्नस्य सम्बन्धः निष्पत्तौ युतसिद्धता' इति ॥ .. परमाण्वाकाशयोः, परमाणुकालयोश्च सम्बन्ध इष्यते, नाकाशकालयोरन्योन्यं - इति प्रक्रिय' वेयमिति' "अल मवान्तरचिन्तनेन । तस्मान्न जातिव्यक्त्योः काचित् वृत्तिरुपपद्यते ॥
[जातिव्यक्त्योः स्वरूपमपि न संबन्धः ] सुशिक्षितास्तु-रूपरूपिलक्षणमाचक्षते जातिव्यक्त्योः सम्बन्धम् -सोऽपि नोपपद्यते। रूपशब्दः किं शुक्लादिवचनः ? आकारवचनः ? स्वभाववचनो वा?
- * युतेति–'युतेष्वाश्रयेषु समवायः' इति कन्दली। तथा च आश्रयमन्तरा पृथगनवस्थानं अयुतसिद्धिरिति भावः ॥
अवयवी यदा न निष्पन्नः तदा संबन्धः कयोः ? यदि निष्पन्नः तर्हि स्वातन्त्र्यमागतमिति तयोर्युतसिद्धिरेव वक्तव्या ।।
* सुशिक्षिताः-प्राभाकरा इति चक्रधरः। परंतु प्रकरणपंचिकादौ समवायोऽङ्गीकृतः। अतः प्राचीनैर्मीमांसकैरतिरिक्ततया स नाङ्गीकृत इति ज्ञेयम् ॥
... 1 अयुत-घ
यि-ख
- घ
ति -ख
कि-क.