________________
न्यायमञ्जरी [जातेः अनुगतत्वानुपपत्तिः ] जातेश्च निरवयवत्वात् न केचिदेकशाः सन्ति, यैरेषा प्रतिपिण्डं वर्तेत न चैकत्र पिण्डे समाप्य वर्तमाना पिण्डान्तरे समा प्यैव' वर्तितुमर्हति समाप्तस्य *पुनरुत्पत्ति विना समाप्त्यन्तरानुपपत्तेः। तथाभूतस्य च वृत्तिप्रकारस्य क्वचिदप्यदर्शनात् ॥
[जातिव्यक्त्योः समवायासंभवः ] या च समवायात्मिका पिण्डेषु वृत्तिः सामान्यस्य औलूक्यैरुच्यते, तामपि न बुध्यामहे वयम् । 'अयुतसिद्धा नामाधार्या धारभूतानां यः । सम्बन्ध इहप्रत्ययहेतुः स समवायः' (प्र. भा. द्रव्य)-इति यदुच्यतेतद्विप्रतिषिद्धम् । अयुतसिद्धता च, सम्बन्धश्चेति कथं सङगच्छेत ? पृथक्सिद्धे हि वस्तुनी कुण्डबदरवत् अन्योन्यं संम्बन्ध्येते, स्त्रीपुंसवद्वा। अयुत सिद्धत्वे तु तदेकत्वात् किं केन सम्बध्ये'त ? न ह्यहं मयैव सम्बध्ये ॥
[द्रव्यगुणयोरपि सम्बन्धासंभवः] द्रव्यगुणयोरपृथक्सिद्धयोरपि सम्बन्धो विद्यत एवेति चेत्, तदिदमुन्मत्तस्योन्मत्तसंवर्णनम्, गुणिनोऽपि गुणव्यतिरिक्तस्यानुपलम्भात् । अयं गुणी रूपादिभ्यो अर्थान्तरत्वेन नात्मानमुपदर्शयति, व्यतिरेक च तेभ्यो वाञ्छतीति चित्रम् ॥
* उत्पत्तिः-स्वरूपावाप्तिः। एकस्मिन् घटे परिसमाप्तं चेत् घटत्वं, नूतनतयोत्पद्यमाने घटे घटत्वं तेनव सह लब्धस्वरूपं सत् तत्र वर्तत इति वक्तव्यम् । ततश्च सामान्यं, अनित्यं अननुगतं च स्यादिति भावः ॥
तदेकत्वादिति-अन्यथा हि युतसिद्धतैव स्यात् कुण्डबदरयोरिव । अयुतसिद्ध हि वस्तुनी समानदेशेसभ्यते। समानदेश समानकाल च सम्मते । - समानदेशकालयोस्तु वस्तुनोः न वास्तविकभेदः, किन्तु शब्दादिभेदमात्रम्। अस्ति हि वस्त्वैक्येपि शब्दभेदः, घटः कुंभ इत्यादि । ततश्च सप्बन्धासंभवः । अधिकमन्यत्र ॥
1 प्त्यैव-
घ
मा -ख
'सिद्धे-क.
ते-ख.