________________
पञ्चममाह्निकम्
[जतिव्यक्त्योः पृथगनुपलंभाच्चाभेदः] अतश्च न व्यक्तिव्यतिरिक्त सामान्यं, भदेनानुपलं भात्। 'त था हि कुवलयामलकबिल्वादीनि करतलव”नि पृथगवलोक्यन्ते, न जातिव्यक्ती इति न तयोर्भेदः॥
[जतिव्यक्त्योस्समानदेशवाञ्चाभेदः ] *देशभेदस्य चाग्रहणात् । यतः खलु यतोऽतिरिक्तं, तत् तदधिष्ठि. तदेशव्यतिरिक्तदेशाधिष्ठानमवधार्यते, घटादिव पटः; न चैवं जातिव्यक्ती इति न तयोर्भेदः॥
. [जातिव्यक्त्योः भिन्नबुद्धयविषयन्वाञ्चाभेदः ]
अतश्चैवं-तदग्रहे तबुध्यभावात् । यद्धि यतो व्यतिरिक्तं, तत तस्मिन्नगृह्यमाणेऽपि गृह्यते, घटादिव पटः। न च व्यक्तावनुपलभ्य. मानायां जातिरूपलभ्यते। तस्मान्न ततोऽसौ भिद्यते ॥
.. . [जातेः वृत्त्यनुपपत्तिः ]
तवृत्तित्वात्सामान्यस्य तदग्रहे तदनुपलब्धिरिति चेत्-न-वृत्त्यनुपपत्तेः। किं प्रतिपिण्डं कार्येनवर्तते जातिः? उतैकदेशेन? इति । द्वयमपि चानुपपन्नम् ॥
पिण्डे सामान्य'मेकत्र' यदिकात्स्न्येन वर्तते । तत्रैवास्य समाप्तत्वात् न स्यात्पिण्डान्तरे ग्रहः ॥३॥ एकदेशेन वृत्तौ तु गोत्वजातिर्न कुत्रचित् । समग्राऽस्तीति, गोबुद्धिः प्रतिपिण्डं कथं भवेत् ॥४॥
__ * यद्यपि-अवयवावयव्यादिषु नास्ति देशभेदः, तथापि तैरवयवी नाङ्गीक्रियते इति स्मर्तव्यम् ॥
एकत्र-एकस्मिन् पिण्डे इत्यन्वयः। समाप्तिः - अपरिशेषः ।। * पटैकदेशभूततन्तौ न हि पटबुद्धिः प्रामाणिकी | अभ्युपगभ्येदं दूषणम् ॥
1 क्त-क
य-क
3 व्यति-घ
'मन्यत्र-ख
ष्य-घ.