________________
न्यायमञ्जरी [जाति: न प्रत्यक्षादिप्रमाणसिद्धा ] तथाहि-न तावत् सामान्यग्रहणनिपुणमक्षजं* ज्ञानं भवितुमर्हति तस्य पूर्वापराननुस्यूतस्वलक्षणमात्रपरिच्छेदपरिसमाप्तव्यापारत्वात् ॥
समानवृत्तिता नाम सामान्यस्य निजं वपुः । कथं स्पृशति सिापेक्षं अनपेक्षाऽक्षजा मतिः ॥ २॥ ....
___ [जातेः प्रत्यक्षत्वासंभवः] समानेष्वाक लिम्तेषु तवृत्तिसाधारण रूपम वधाय सामान्य गृह्यत इति सापेक्षं तत्स्वरूपग्रहणम् । इयं च प्रथमनयनसन्निपादसमुद्भूता मतिः पूर्वापरानुसन्धानवन्ध्या निरपेक्षा कथं तद्ग्रहणाय प्रभवेत् ? ..
तत्पृष्ठभाविनस्तु विकल्पाः स्वभावत एव वस्तुसंस्पर्शकौशलशून्यात्मान इति तद्विषयीकृतस्यापि सामान्यस्य न परमार्थसत्त्वं भवितुमर्हति ॥
. [अनुमानं, शब्दो वा न जातौ प्रमाणं भवेत् ] न चानुमान, शब्दो वा सामान्यस्वरूपवास्तवत्वव्यवस्थापन सामर्थ्यमश्नुते, शब्दलिङगयो विकल्पविषयत्वेन वस्तुग्राहित्वासंभवात्। तत्प्राप्त्यादिव्यवहारस्तु प्रकारान्तरेण दर्शयिष्यते (पु. 27-32) ॥
* अक्षजमित्यादि-स्वलक्षणापरपर्याय निर्विकल्पकमित्यर्थः । प्रथमसंपुटस्य 236-257 पुटा द्रष्टव्याः ।।
सापेक्षमिति–सामान्यग्रहणं तु त्रैकालिकवस्तुस्फुरणसापेक्षम् । इन्द्रिय वर्तमानकविषयकम् । ततश्च कथं इन्द्रियेण सामान्यग्रहणमिति सारम् । अनपेक्षापूर्वापरवस्तुग्रहणनिरपेक्षा ॥ ·
दर्शयिष्यत इति—अनादरे । वस्तुतस्तु दर्शितमिदं पूर्वमपि ।। (प्र. सं. 62 पु.)
___ 1 णि-ग
म- घ
त-ख
पर- क
वि -क.घ.