________________
पञ्चममाह्निकम्
[नामपदानि चतुर्विधानि ] ते च चतुर्विधाः सुबन्ताः पदात्मानः शब्दा भवन्ति–जातिशब्दाः, क्रियाशब्दाः, गुणशब्दाः, *द्रव्यशब्दाः इति ॥
तत्र गवादिजातिशब्दानां गोत्वादिजात्यवच्छिन्नं व्यक्तिमात्रमर्थः, यस्तद्वानिति नैय्यायिकगृहे गीयते ॥
[गवादिपदानां जातिवाचकस्वाक्षेपः] ननु! शुक्लादिगुणाधिकरणं क्रियाश्रयश्च द्रव्यं व्यक्तिः, सास्नाद्यवयवसन्निवेशात्मिका आकृतिः, शाबलेयादिसकलगोपिण्डसाधारणं रूपं जांतिरिति व्यक्त्त्याकृतिजातिसन्निधाने समुच्चारित एष गोशब्दः कथमितरतिरस्कारेण तद्वन्मात्रवचनतामवलम्बेत? .
[जातिविचारोपक्षेपः] .. ' आह-वितता खल्वियं कथा; "चर्चयिष्यते तावत्। इदं तु चिन्त्यताम्-जातेरेव प्रमाणातीतत्वेन शशशृङगवदविद्यमानत्वात् कथं तद्वान् पदार्थो भविष्यति?
-
__* द्रव्यशब्दाः-एत एव संज्ञाशब्दाः यदृच्छा शब्दा इत्युच्यन्ते । यथा प्राचा घटादिशब्दाः। नव्यानां डिस्थादिशब्दाः ।
तद्वान जातिमान् । तथा च अनुगमार्थमेव जात्यपेक्षेति भावः ॥ तथा च जात्यादिवाचकत्वं प्रवृत्तिनिमित्ततया विवक्षितम् । गोशब्दाः जाति, शुक्लशब्दाः गुण, पाचकादिशब्दाः क्रियां, डित्थादिशब्दाः द्रव्यं (संज्ञा) च निमित्तीकृत्य प्रवृत्ताः इत्यर्थः ॥
सन्निधानं–उपस्थापनम् । त्रीणि ह्येतानि पदेन प्रतिपत्तुं शक्यानि ॥ एवं सति कथं पदानि व्यक्तिवचनानीति निष्कर्षः ?
इयं कथा-पदानामर्थः किं व्यक्तिः, उताकृतिः, उत जातिः, उत द्वय, · ऋयं वा इति विचारः॥
. ..
1 न-ग
-घ.
३ वर्त-ख.