________________
न्यायमञ्जरी [ शब्दः द्विविधः ] द्विविधः शब्दः-पदं, वाक्यं च। तत्र पदार्थपूर्वकत्वात् वाक्यार्थस्य प्रथमं पदार्थो निर्दिश्य निरूप्यते ॥
[ पदमपि द्विविधम् ] " पदं च द्विविधं नाम, आख्यातं च। *उपसर्गनिपातकर्मप्रवचनीयानामपि नामस्वेवावन्तर्भावमाचक्षते। तिदुक्तं 'सुप्तिङन्तं पदम्' (पा.सू. 1-4-14) इति। इहापि सूत्रकृदाह 'ते विभक्त्यन्ताः पदम्' (न्या. सू. 2-2-60) इति । तत्र तिङन्तपदार्थचिन्ता वाक्यार्थविचारा'वसर एवकरिष्यते, तदौपयिकत्वात् । सुबन्तानां त्वर्थोऽयमुच्यते ।।...
बन्धवे । अथवा 'समोऽहं सर्वभूतेषु' इति · वदन्नपीश्वरः ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ' इति भक्त्याज्यकारणेन चेतनानां. बन्धुर्भवतीति सः कारणबन्धुः। अन्यथा हि लोकवैय्याकुली। तथोक्त-'सर्वज्ञोऽपि च देवेश: सदा कारुणिकोsपि सन् । संसारतन्त्रवाहित्वाद्रक्षापेक्षा प्रतीक्षते ' इति ॥ _ * उपसर्गाः – क्रियायुक्ताः प्रादयः । निपाताः - चादयः । कर्मप्रव चनीयाः- 'अनुर्लक्षणे' (पा. सू. 1-4-84) इत्याद्युक्ताः ‘अनु' इत्यादयः ।। तथा च पदार्थो द्विविदः-सिद्धः साध्यश्च | तत्र सिद्धार्थवाचकं नामपम्, साध्यार्थ वाचकं आख्यातपदमिति वस्तुस्थितिः। तेन ‘चत्वारि पदजातानि, नामाख्यातोपस निपातभेदेन' इति यास्कवचनमापातत इत्युक्तं भवति ।।
+ पदद्वैविध्ये वृद्धसम्मतिमाह-तदुक्तमिति-तथा च निपातादीनां सुबन्ता परपर्यायनामपदेष्वेवान्तर्भाव इत्याशयः ॥ यद्यपि: 'शक्तं पदम्' इति प्रसिद्धं पदलक्षणम् ; अथापि ते विभक्तयन्ता: पदम्' इति गौतमोक्तेः न तत् प्रत्याख्यातुं शक्यम । अन्यथा 'घटम्' इत्यादीनामपि वाक्यत्वेन व्यवहारप्रसङ्गः। अत: 'शक्तं पदम्' इति परीक्षकानां शास्त्रीय लक्षणम् । 'विभक्त्यन्तं पदम्' इति च लौकिकानां व्यावहारिक लक्षणमिति व्यवस्था ज्ञया ||
तदौपयिकत्वात्-वाक्यार्थोपयुक्तवात् । क्रियायां हि वाक्यं समाप्यते ।
1.
र्था-ग.