________________
।। श्रीः ।।
श्रीमजयन्तभट्टविरचिता
न्या य म जरी न्यायसौरभाख्यटिप्पणीसंयुता
ञ्चममाह्निकम्—शब्दपरीक्षा
[ जात्यङ्गीकाराक्षेपः ] *प्रपन्नाय विपन्नानां दुःखितानां सुखात्मने ।
संपूर्णाय दृढाशानां नमः कारणबन्धवे ॥ अथ यदुक्तं (प्र. सं. 412 पु.) वास्तवस्य शब्दार्थस्याविद्यमानत्वादर्थासंस्पशिनः शब्दा इति-तत् प्रतिविधीयते ॥
* प्रपन्नायेति । कर्मणि क्तः। विपन्नानामिति कर्तरि शेषे वा षष्ठी। अथवा सर्वत्र ऐकरूप्येण विपन्नानामित्यादौ-निर्धारणे षष्ठी। दृढाशानांअपूर्णानामिति यावत् । आशा हि अपूर्णतैव। विपनानां जीवानां मध्ये तैः रक्षकत्वेन प्रपन्नः। विपन्नकर्तृकप्रपत्तिकर्मीभूत · इत्यर्थः । नित्यापूर्णानामिति यावत् । अपूर्णतैव भाशानिदानम् । विपन्नानां, दुःखिताना, दृढाशानां इतिपदैः जीवानां निर्देशेन-प्रपन्नाय, सुखात्मने, संपूर्णाय इति पदैः परमात्मनश्च निर्देशेन जीवपरमात्मनोश्चेतनत्वेन साम्येऽप्यत्यन्तवैलक्षण्यममिहितम् । जीवानां दृढाशत्वादेव दूःखित्वम्, दुःखित्वादेव विपन्नत्वं च सूचितम् । तथा ईश्वरस्यापि संपूर्णत्वादेव सुखात्मत्वं, तत एव च प्रपनवं च सूचितम् । परमात्मनि सुखसद्भावः जयन्तभट्टसंमतः ॥ कारणबन्धवे-जगत्कारणभूत
1. स-घ