SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ 363 अष्टममाह्निकम् तदित्थं भोगायतनत्वेन बन्धहेतुत्वाद्धयमित्यर्थः। तदिदानीमस्म. दादिशरीरं किं पर्थिवम् , कि वा नानाभूतनिर्मितमिति परीक्ष्यते ॥ । [शरीरस्य पार्थिवत्वविचारफलम् ] ननु ! किमनया परीक्षया प्रयोजनम् ? निःश्रेयसोपयोगो हि यः शरीरस्य दर्शितः । 'सोs नेकप्रकृतित्वेऽपि न स तस्य विशिष्यते ॥ मैवं वोचः प्रतिपन्नस्वरूपस्य चिन्त्या कार्यो पयोगिता। कार्या कार्याथिनोऽप्यादौ यत्नस्तद्रूपनिर्णय ॥ तथा चेन्द्रियाणि भौतिकत्वाहङकारिकत्वादिवेकेन परीक्षिष्यन्ते ॥ अर्था अपि कति, किंगणा इति ॥ बुद्धिरपि किं प्रधानस्य प्रथमो विकारः महच्छब्दवाच्यः, उत आत्मन एव धर्मो ज्ञानाख्यः क्षणिकः ? इत्येवं सर्वत्र द्रष्टव्यम् । . [मानवशरीरस्य पार्थिवत्वादिविकल्पाः] तत्र पाथिवमेवास्मदादिशरीरमिति केचित् । असाधारणो हि धरणिधर्मः गन्धस्तस्मिन्नुपलभ्यत इति ॥ देहेन्द्रियादिविलक्षणत्वज्ञानमात्मन आवश्यकम् । तच्च देहेन्द्रियादीनां स्वरूपनिष्कर्षमन्तरा न संभवति ॥ हि-ख, ___1 ना-ख, • सा-ख. सत्य-च, कारो-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy