SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ 362 न्यायमञ्जरी [इन्द्रियाश्रयत्वपरीक्षा] भवत्वेवं चेष्टाश्रयत्वं शरीरलक्षणम्। इन्द्रियाश्रयत्वं तु कथम् ? भौतिकानि होद्रियाणि स्नावयवसमाश्रितानि ध्राणरसननयनस्पर्शनानि । श्रोत्रमनसी तु नित्यद्रव्यत्वादनाश्रिते एवेति कथमिन्द्रियाश्रयता शरीरस्येति उच्यते-नात्र आधाराधेयभाव आश्रयार्थः ; किन्तु तदनग्राह्यत्वात्तदाश्रितानि इन्द्रियाण्युच्यन्ते। देशकालदशानुकूलपथ्यभोजनाभ्यङगव्यायाममर्दनाद्युपचारोपचितशरीरस्य हि पुंसः पदुतराणि स्वविषय ग्रहणे भवन्तीन्द्रियाणि । दीर्घाध्व लङयनकदशनशुष्कजर पुरन्ध्री सेवनादिक्लिष्टशरीरस्य तु पुंसः मन्दशक्तीनि भवन्ति तदनुग्राहकत्वादिन्द्रियाणामाश्रयः शरीरम्॥ [अर्थाश्रयत्वलक्षणपरीक्षा] अर्थानां तु रूपरसगन्ध दीनां केषां चिदाश्रयः शरीरं भवत्येव तत्स. मवायिनाम् । न तु तावता किंचिद्भोगायतनत्वोपयोगि रूपमभिहितं भवति ॥ ___ लक्षणमपि तदतिव्यापक रूपरसादिसमवायस्य वृक्षादावपि भावात् । तस्मात् तदा श्रयत्वमीदृशमत्र विवक्षितम्। य एते परवनितादिशरीरवर्तिनः प्रविकचमुचुकुन्दकुन्द कन्दलकुमुदकुड्म'लादिबाह्यविषयसमवायिनश्च रूपरसादयोऽर्था रमणीयतामादधाना रागवृद्धिहेतवो भवन्ति भोक्तुरात्मनः शरीरे सति, न शरीररहितस्येति अर्थानां भोगसाधनभावा. दाश्रयः। शरीरम्। अतः सुष्ठुक्तं चेष्टेन्द्रियार्थाश्रयः शरीरमिति ॥ ___ * लङवनं–निरशनम् ॥ + अर्थ:-भोगः। तदाश्रय तदवच्छेदकं शरीरम् ॥ 1 यपुरन्नि-ख, सचन्द्र-ख, ३ र्थभोगा-ख, कन्दलकम-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy