SearchBrowseAboutContactDonate
Page Preview
Page 394
Loading...
Download File
Download File
Page Text
________________ 361 अष्टममाह्निकम् प्रमेयलक्षणप्रक्रमतोऽवसीयमानत्वात् । हिताहितप्राप्तिपरिहारयोग्यव्यापाराधिकरणं हि शरीरमुच्यते, न चेष्टामात्रस्याधिष्ठानम्। रथादिनाऽपि नातिव्याप्तिः, यथोक्तप्रक्रमवशादेव 'अन्येन प्रेरणायामसत्याम्' इति विशेष लाभात। आत्मप्रयत्नातिरिक्तप्रेरकनिरपेक्ष हिताहितोपादानपरित्यागोपाधिकचेष्टाविशेषाश्रयः शरीरमित्यर्थः ॥ __ [शरीरलक्षणे दोषपरिहारः] ननु ! पाषाणान्तर्गतमण्डूकशरीरेषु तदाश्रयत्वादर्शनादव्याप्तिःन-योग्यताया-स्तत्रापि भावात्। सत्यामपि क्रियायोग्यतायां सर्वतो निविवरनि'ब्रिड' दृषकपरोपरुद्धावकाशतया चलितुमसौ न प्रभवति भेको वराकः। तथा च स्फुटिते तस्मिन्न श्मनि तत्क्षणमेवासौ चलत् दृश्यते इति निबिडपाशसंयतशरीरवत् तदानीं चेष्टाया अदर्शनेऽपि नाव्याप्तिः॥ .. [मुमुक्षुशरीरनियमाभावः ] मुमुक्षुशरीरमेव लक्ष्यमित्येके । तेन न मण्डूकशरीरादिभिरव्याप्तिः, अलक्षणीयत्वात्तषामिति–तदयुक्तम्-नियतस्य मुमुक्षुशरीरस्याभावात् : तादशि च भेकादिशरीराणि नितरां निर्वेदकारीणि भवन्ति । मुमुक्षुरपि कर्मविपाकमनेकप्रकारमाकलयन् मण्डूकोभावमात्मनोऽपि 'न न' शङकते ॥ - प्रत्यासन्नापवर्गपुरप्रवेशविपश्चित्तममपश्चित्तममपश्चिमजन्मानं मुमुक्षु । प्रति लक्षणाद्युपदेशः क्वोपयुज्यते ? इत्यतः पूर्वोक्त एवाव्याप्तिपरि. हारः श्रेयान् ॥ * 'चेष्टते' इति व्यवहारः खलु यत्नाधीनच्यापार एव स्वरसः ॥ 1 चित-ख, न्वे-ख. ३ न-ख.
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy