________________
अष्टममाह्निकम् —प्रमेयपरीक्षा
[शरीरपरीक्षा] आत्मानन्तरं विभागसूत्रे शरीरनिर्देशात् तदनुक्रमेण तत्स्वरूप.. निरूपणार्थमाह
चेष्टेन्द्रियार्थाश्रयः शरीरम् ॥२-२-३२ ।। शरीरस्य यल्लक्षणं, येन रूपेण विभाव्यमानस्यापवर्गोपयोगिता तदु- . भयमपि प्रतिपाद्यते ।।
शरीरलक्षणम् ] . तत्र शरीरत्वमेव तावत् प्रथमं शरीरस्य लक्षणम्। तेन हि समाना. समानजातीयकेभ्यः तद्व्यवच्छिद्यते। तस्मिन् सत्यपि चेष्टेन्द्रियार्थाश्रयत्वं यदस्य लक्षणमुच्यते, तत् तेन रूपेणात्मनो भोगायतनं शरीरमिति ज्ञापयितुम् । चेष्टेन्द्रियार्थाश्रयतया हि शरीरमात्मनों भोगसाधनं भवति । मुमुक्षुणा च *सुखदुःखोपभोगरहितात्मतत्त्वस्वभावनिःश्रेयसाधिगम. विनिहितमन सा तथा भोगाधिष्ठानत्वेन शरीरं भावयता तत्परिहरणे यत्नः कार्य इति आचार्यः चेष्टेन्द्रियाश्रियत्वमस्य लक्षणमुक्तवान् ॥
[ चेष्टास्वरूपम्] ननु! चेष्टा क्रिया। क्रियाश्रयत्वे सत्यपि न वृक्षादीनां शरीरस्वमिति अतिव्यापक लक्षणम्-न-विशिष्टचेष्टाश्रयत्वस्य विशिष्ट
* अशेषविशेषगुणोच्छेदो हि मोक्षः॥
1 झुणां-च,
सां-च,
ता-च.