SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 364 न्यायमञ्जरी पृथिव्युदककारणमित्यन्ये। क्लेदस्यापि तस्मिन् दृर्शनात् । असति हि सलिलसंसर्गे न पार्थिवावयवाः' क्लेदमनुभवन्तीति ॥ क्षितिजलज्वलनजनितमित्यपरे, गन्धक्लेदवदूष्मणोऽपि तत्रोपलंभादिति ॥ वसुमतीसलिल* सितेतर सरणिसमीरणरचितमिति चान्ये, रचना विशेषस्य पवनकार्यस्य तत्रावधारणादिति ।। अवनिवनदहनपवनगगनविनिर्मितमिति चापरे, गन्धादिवदवकाश. स्याप्याकाशकार्यस्य तत्र दर्शनात् । सुषिरं हि शरीरमुपलभ्यते। अवकाशे चाकाशैकदेशेऽप्यवच्छेदाभिप्रायेण श्रोत्रवत् भक्त्या तत्कार्यत्वव्यपदेश इति॥ [ मानवशरीरस्य पार्थिवस्त्रम्] तदत्र कि तत्वम् ? पार्थिवमेवास्मदादिशरीरमिति, विजातीय . कार्यस्यावयविनोऽनुपपत्तेः । पार्थिवावयवसमवेतशरीरावय विग्राहिणस्त्वभेदप्रत्ययस्य तृणपर्णपाषाणमूलकाद्यभेदप्रत्ययवत् अपवादासंभवात् । न वयमिह भूतान्तराणां कारणभावनिषेधं शिक्ष्मः । केवलपार्थिवतया निर्विवा देऽपि कुम्भादावम्भःप्रभृतीनां. कारणत्वानपायात्। तदव्यतिरेकेण घटादेर्घटयितुमशक्यत्वात् ॥ किन्तु घटादाविव शरीरेऽपि समवायिकारणं पृथिव्यवयवानेवाचक्ष्महे, तदाश्चितत्वस्यास्य प्रत्यक्षेण ग्रहणात्। सहकारिकारणानु ___ * सितेतरसरणिः-कृष्णवर्मा-अग्निः॥ + इतराणि तु सहकारीणि ॥ _1 वाः-ख, 5 दसिद्धे-ख, घ. त-च, ३ व-ख, विद्मःख, घ,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy