SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ 358 न्यायमञ्जरी [स्थिरस्थात्मनः आवश्यकत्वम् ] एषां च क्षणभङिगत्वात् संस्कारद्वारिका स्थितिः। स कर्मजन्यसंस्कार:* धर्माधर्मगिरोच्यते ॥ विना च नित्यमात्मानं न धर्माधर्मयोः स्थितिः ॥ नित्यस्तस्माद्भवति पुरुषः स्वप्रणीतानुगच्छ धर्माधर्मक्रमपरिणतानन्द तापोपभोगः। प्रामाण्यं च स्फुटमभिहितं पूर्वमेवागमानां तेभ्योऽप्यात्मा जनननिधनातीततत्त्वः प्रसिद्धः ।। . [ आत्मानित्यत्ववचनगमनिका] यद्विज्ञानघनादिवेदवचनं तत्पूर्वपक्षे स्थितं पौर्वापर्यविमर्शशून्यहृदयः सोऽर्थो गृहीतस्तथा । मैत्रेय्या परिचोदितस्तु भगवान् यद्याज्ञवल्क्योऽब्रवीत् *आत्मा नैव विनश्यतीति तदिदं सिद्धान्तसारं वचः ।। तेनात्मनित्यत्वसमर्थनेन , सुस्पष्टसिद्धः परलोक मार्गः । य एव देहान्तरसंगमोऽस्य तमेव तद्ज्ञाः परलोकमाहुः ॥ - - * संस्कारः-अतिशयः॥ बृहदारण्यकोपनिषदि ६ अध्याये द्रष्टव्यम् ॥ , अविनाशी वा भरे अयमात्मा' इति श्रुतिः॥ ६ परलोकपदेन एतल्लोकमपि क्रोडीकतुं व्याख्याति-देहेत्यादि । 1 न्त-ख, 2 दा-च, 'वादः-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy