SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ 357 सप्तममाह्निकम् [कर्मणां शक्तिवैचित्र्यम् ] कर्मणां ननु वैचित्र्यं कर्मान्तरकृतं यदि । अनिष्टं तत्* स्वतस्सिद्धं जगत्येव तदिष्यताम् ॥ कर्मणां शास्त्रतो ज्ञाता विचित्रफलशक्तता। दृष्टार्थेषु च वाक्येषु दृष्टा प्रत्यक्षतोऽपि सा ॥ तस्मादृष्टस्य कार्यस्य युक्ता कारणकल्पना । कारणस्य त्वदृष्टत्वात् किं हेत्वन्तरचिन्तया ॥ . [ कार्यकारणभावपरंपरायां नानवस्था दोषः] 'हेत्वन्तरं तु तद्धेतोः नास्तीत्येतावतैव किम्। दृष्टस्याप्यस्य कार्यस्य युज्यते हेत्वपह्नवः ? ॥ हे'त्वन्तरनिमित्तेऽपि कर्मवैचित्र्यकल्पने। संसारस्य त्वनादित्वात् नानवस्था भयावहा ॥ तथा च पुण्यः पुण्येन पाप: पापेन कर्मणा । जायते जन्तुरित्येवं धर्मशास्त्रेषु पठ्यते ॥ तस्मात् कुतर्क नूले न दृष्टकार्योपपातिना। सर्वलोकविरुद्धेन चोयेन कृतमीदृशा || तस्मात् कल्प्यानि कर्माणि दृष्टकार्योपपत्तये॥ * अनवस्थाप्रसङ्गो हेतुः। यत्र कुत्रचित् स्वभाववादस्यावश्यकत्वादादावेव तच्छरणीति यतामिति भावः । समाधत्ते-कर्मणामित्यादिना ॥ + सा-विचित्रफलशक्तता। आयुर्वेददास्त्रवाक्येषु हरीतक्यादौ सा दृष्टा॥ 1 हे-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy