________________
354
न्यायमञ्जरी तदेव कारणनियमोऽपि कार्यविशेषद'र्शनाद्दुरपह्नव इति मुखविकासस्य हर्ष एव कारणमवगम्यते, सहस्रकृत्वस्तथा दर्शनात् ।।
अचेतनानां तु तामरसादीनां विकासकारणं तरणिकिरणनिकरपरि ध्वङगाद्युपलब्धमिति तदपि न स्वाभाविकम् ।।
तस्मान्मुखविकासस्य हर्षः, हर्षस्य च स्मृतिः । स्मृतेरनुभवो हेतुः स च जन्मान्तरे शिशोः ।। .
[जन्मान्तरानुभूतानां न सर्वेषां स्मरणम् ] ननु ! शिशोर्जन्मान्तरानुभूतस्मरणे सर्वदा सर्वस्मरणप्रसङगः-न-. यावत्कार्य कारणकल्पनात्। न हि सर्वदा सर्वानु स्मरणं संवेद्यते ! न च तत्कल्पनायां कारणमुपलभ्यते। न चैकदर्शनात् सर्वं कल्प्यं, दृष्टमपि वा निह्नोतव्यमिति परीक्षकाणामुचित एष पन्था इत्यसकृदुक्तम् ॥
__ [शिशोस्तन्यपानप्रवृत्त्या जन्मान्तरसिद्धिः ] , अपि च पयसस्तृप्तिहेतुतामनुस्मरन् बालकः स्तन्याभिलाषेण मातुस्तनतटे दृष्टि निदधाति। न चाद्य तेन तस्य तत्साधनत्वमवगतमिति जन्मान्तरे सम्बन्धग्रहणमस्य वृत्तमिति मन्यामहे ॥
न चायस्कान्तदृष्टान्तसमाश्रयण स्वाभाविकमेव तत् बालकस्य कुच. कलशनि कटोपसर्पणमिति वक्तुमुचितम , अनन्तरमेव निरस्तत्वात् ॥
[गर्भस्थशिशोः पोषणकारणम् ] ननु च गर्भशय्याशायिनोऽपि परि पोषदर्शनात् तत्साधनोपादाने तदनुस्मरणमेव प्राप्नोति-यदि कार्यमवगम्यते तत्रापि तत्कारणमवगम्य
___ * एतजन्मन्यप्यनुभूतं सर्वं न हि स्मयते। अदृष्टमेवात्र नियामकम् ॥ ___ 1 शिनां दु-क, व-ख, मित्तो-ख, प्य-ख, 5 तो-ख, घ, ण कल्प्य -ख.
।