SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ 353 सप्तममाह्निकम् [शिशोस्सुखदुःखानुस्मरणम् ] - ननु ! अभिनवजीवलोकावलोकनालादनिबन्धन एवास्य मुखविकासः, तथा योनिद्वारनिर्गमनोद्गतनिरर्गलक्लेशपीडितस्य तस्य रोदनमिति न जन्मान्तरानुभूतस्मरणं कल्पयितुं युक्तम्, अतिप्रसङगात्-मैवम्सुखदुःखहेतुमीदृशमननुभवतोऽप्यकस्मादेव* हर्षशोकदर्शनात् ॥ ___ [शिशोर्मुखविकासादेरहेतुकत्वनिरासः ] · ननु ! कमलमुकुलविकासादिवत् स्वाभाविकमेव शिशोर्मुखविकासादिकार्य स्यात्-स्वाभाविक नाम किमुच्यते, किमहेतुकम् , अविज्ञातहेतुकम् , अंनियतहेतुकं वा? न तावदहेतुकं कार्य संभवति, कार्यत्वहानिप्रसङगात् ॥ नाप्यविज्ञातहेतुकं तद्भवितुं युक्तम् – कार्यमुपलभ्यते। तद्धेतुपरिज्ञाने यततां भवान् ; किमुदास्ते ? न चासौ ज्ञातुमशक्यः, कार्यस्यैव तत्र ज्ञापकत्वात् ॥ . नाप्यनियतहेतुकं कार्य किंचिदस्ति। कार्योत्पादननियमेनैव हेतुनियमसिद्धः। अत एव तत्कार्यमुपपादयितुकामाः तन्नियतमेव कारणमुपाददते लौकिकाः॥ [गोमयवृश्चिकादेरुपपत्तिप्रदर्शनम्] __... यत्राप्यनियतो हेतुः वृश्चिके गोमयादिकः । अभियुक्त स्तु तत्रापि विशेषं न न मन्वते ।। सुषुप्त्यादौ इति शेषः॥ अन्यथा मृदः कुतो न वृश्चिकोत्पत्तिरिति प्रश्नः दुरुत्तरः स्यात् ।। 1 भावयि-ख, स्तद-ख,
SR No.002266
Book TitleNyayamanjari Part 02
Original Sutra AuthorN/A
AuthorK S Vardacharya
PublisherOriental Research Institute
Publication Year1983
Total Pages794
LanguageSanskrit
ClassificationBook_Devnagari
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy