________________
352
न्यायमञ्जरी
[विभोरपि कर्तृत्वोपपत्तिः] व्यापिनः तथं कर्तृत्वमिति चेत्, ज्ञानचिकीर्षाप्रयत्नसमवाय एवास्य कर्तृ त्वम्, न व्यापारयोग इति निर्णीतमेतत् ॥
नन ! व्यापिन्यात्मनि कथं शरीराबहिरण्वपि तत्कार्य न दृश्यतेकर्माक्षिप्तशरीरेन्द्रियादिसहकारिसन्निधाननिबन्धनो हि तत्कार्योत्पादः । स कथं ततो बहिर्भवेत् इति ||
तस्मादनन्तरोक्तेन प्रकारेणोपपादितम् । नित्यत्वाद्व्यापकत्वाच्च परलोकित्वमात्मनः॥
[ आत्मनः देहातिरिक्तत्वे हेत्वन्तराणि ] सूत्रकारस्तु पारलौकिकत्वसिद्धये हेत्वन्तराणि प्रत्यपादयत् । सद्योजातस्य बालस्य विदनविकासरोदनाद्यनुमितो हर्षशोक दियोगस्तोत्रदस्ति । युवशरीरादौ रोदनादि शोकादिकारणकमवगतम्। आननविकासादि हर्षहेतुकम्। एवं शिशोरपि तन्निबन्धनः तदुत्पादः। तौ च हर्षशोको सुखदुःखसाधनाधिगमतदनुस्मरणान्यतरकारणको भवितुमर्हतः, तथा दृष्ट. त्वात्। इह चास्य न सुखदुःखसाधनपदार्थानुभंवस्तादनीमस्ति-इति तदनुस्मरणमेव हर्षशोकहेतुर्भवेत् ॥
'तदनुस्मरणपि तदनुभवप्रभवम् । अनुभवश्चेह जन्मनि सद्योजातस्य न समस्तीति जन्मान्तरान भूत सुखदुःखसाधनानुस्मरणनिमित्तक एवास्य हर्षशोकसमुत्पाद इति जन्मान्तरानुगमान्नित्य आत्मा ॥
* विभोश्चलनाद्यसंभवादिति हेतुः॥ निद्रादिष्धपीति शेषः॥
___1 म-च,
2 ब-ख,
क्रमे-ख.
रम-ख,